This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
१३
 
रूपस्वभूमा न त्यक्ष्यत इति बोध्यते । विभुर्विष्णुः खल्ववत
रति स्वं स्वभावमविहाया भूमा च स्वस्वभावः । विष्ण्वव.
तारे तद्वैभवमध्यवतरति । अन्यथावतीर्णो न विष्णुः स्यात् ।
वरये वैष्णववैभवावतारम्' इत्यतिमानुषस्तवप्रथमश्लोके
श्रीवत्साढमिश्रैर्भगवद्वैभवस्यावतारो व्यज्यत इव । 'अनासी-
दद्दोषो जहदवधिषाहुण्यमहिमा विहारस्वाच्छन्याद्विभुरिह
दुधानो विभवताम् । तिरश्चामप्येतैः कमठकि टिपाठनिपतग-
प्रकारैराकारैः परिबृढतमत्वं दृढयति ।' इत्याचार्या : सङ्क
ल्पसूर्योदये । सर्वैरुपसत्तुं योग्यं भगवन्तं दोष एक एव ना-
सीदेदिति व्यज्यते 'अनासीदद्दोष : ' इति । अशेषशरण्यो
ऽपि न दोषशरण्यः । न दोषास्तस्मिन्शरणं लभेरन् । आस
श्रेषु दोषं मृष्येत् 'दोषो यद्यपि तस्य स्यात्' इति । आसी-
दन्तं दोषं तु न मर्षयेत् : न तस्य किमप्यननुकूलवेदनीयं
हेयं भवति । लोके हेयभूता रोषादयोऽपि तस्य निःसीम-
शक्ते: सुनिरसविषये प्रीतये स्युः । विभोर्विष्णोर्विभवरूपाव-
तारो युक्त इति व्यज्यते 'विभुरिह दधानो विभवताम्'
इति । ब्रह्म परिबृढं सर्वतः' इति यास्कनिर्वचनं ब्रह्मश-
ब्दस्य । ब्रह्म ततमम्' इति श्रुतिः । तल्लक्षणसमन्वयार्थं
स्वस्य परिबृढतमत्वं दृढयितुं तिर्यग्भूतसर्वप्राणिप्रकाराकारप-
6
 
P