This page has not been fully proofread.

१२
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
M
 
विग्रहस्य सकलमनुजनयनविषयीकरणं विना कथं विश्वममृ-
तप्लावनेनाप्यायितं भवेत् । कथं चाक्रूरमालाकारादिपरमभा
गवतानां दृष्टिचित्तापहरणेन तद्भक्तिरूपधर्मवर्धनम् । अवता-
रितभक्तियोगरूपगीताया गीतेत्यसाधारणो व्यपदेशः । निरु-
पपद्गीताशब्दो भगवद्गीतामभिट्ट्यात् । 'गीता: सुगीताः
कर्तव्याः' इति ऋषिवचनम् । गीतान्तराणामनुगीता, शिव-
गीता, श्रुतिगीता, भ्रमरगीता, गोपिकागीतेति सविशेषना-
मान्येव भवन्ति ॥
 
अवतार प्रशंसायां ब्रह्मणोच्यते ' को वेत्ति भूमन्भगवन्प-
रात्मन्योगेश्वरोतीर्भवतत्रिलोक्याम्' इति । तत्रावतरद्ब्रह्म
भूमन्निति संबोध्यते । अल्पप्रत्यर्थिनो विभुभूतभूम्नोऽल्पभूमि-
काभूतावतारवेषपरिग्रहः सर्वशक्ति बिना दुर्घट इति तेन
संबोधनेन व्यज्यत इव । तदेव निपुणं प्रदर्श्यते आचार्यैः
' यस्यासौ भजते कदाचिदजहद्भूमा स्वयं भूमिकाम्' इति
स्वज्ञानप्रदात्रीं हयवदनभूमिकारूपाचार्य भूमिकापरिग्रहीत्रीमा
दिमां देवतामुद्दिश्य तेजोमयस्य देवस्य विभोर्भूमिकापरि-
ग्रहः श्रमसाध्य इति प्रथमश्लोकपठितेन भूमिकाशब्देनाचार्या
व्यब्जयन्तीव । अजहद्भूमा स्वयं भूमिकाम्' इत्यवतारेषु
सकलमनुजदृश्यत्वाय भूमिकापरिग्रहेऽपि निरतिशयबृहत्व-