This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
११
 
1
 
पत्तिरसाविष्टानस्माभिर्भरं संपूर्ण रसं लम्भयितुं भगवान्राम-
कृष्णादिभूमिकाः परिगृह्णाति । निर्भरस्य निर्भरो रसो देयः ।
निर्भरैः प्रपन्नैर्निर्भरो रसः प्राप्यत इति चारु व्यज्यते आचा-
यैर्लब्धनिर्भररसैरिति प्रथमश्लोके । भगवतो दशभूमिका
भूमिकाभूतः प्रथमश्लोकः । 'प्रपञ्च निष्प्रपञ्चोऽपि विड-
म्वयसि भूतले । प्रपन्नजनतानन्दसंदोहं प्रथितुं प्रभो ॥' इति
ब्रह्मा ब्रह्म कृष्णं प्रति । तेनावतारप्रयोजनं दर्शितं भवति ।
तदेव प्रपन्नजनतानन्दसंदोहप्रथनमत्र प्रथमश्लोके प्रयोजन -
त्वेन की ते 'नः शुभमातनोतु' इति । आतनोत्विति विस्तारण-
रूपप्रथन प्रार्थना । शुभमित्यानन्दसंदोहः । अद्भुतप्रपनवेषपरि-
गृहीतिनो ऽस्मांम्तन्मात्रप्रीतो देवः स्वाद्भुतभूमिकाभिरस्माकम-
द्भुतरसं पुष्णाति । 'धर्मसंस्थापनार्थाय' 'परित्राणाय साधूनाम् '
इति सामान्येनोक्तमवतारप्रयोजनमल पर्यवस्यतीति चारु
प्रत्यपादि गीताभाष्यारम्भे भूमिकापरिग्रहविषयभूमिकायाम-
बतारविषयावतारिकायाम् । तदेव विशदतरमवाच्यवताररह-
स्यभाष्ये, तत्तात्पर्यचन्द्रिकायां च । गीताशास्त्रतात्पर्यभूतभ-
वियोगमवतारयितुं भगवतावतारः कृत इत्युक्तं गीतावतारि-
कायाम् । अवतारावतारितो भक्तियोगोऽवतीर्ण भगवतोऽपि
मुख्यतर इति चारु व्यज्यते । लावण्यधाम्नः स्वाद्भुतदिव्य-