This page has been fully proofread once and needs a second look.

११२
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
जाता ॥
 

 

 
शुद्धि कापि तनौ । विद्योदन्वति जातमिदं स्तोत्रं स्व-

विवक्षोर्विलक्षणं ब्रह्मवर्चसं ददाति । नातेजस्केन वचनमेत

न्मर्षयेत् । स्वस्यातेजस्कपठनरूपाशुद्धिनिवारणाय स्वविवक्षु.
-
तनुं पठनात्पूर्वं विवक्षाक्षण एव विलक्षणशुद्धिमतीं करोति

परा भक्तिर्जाता मानसे । मोन: सिद्धः । स चैतज्जन्मावसा-

न एव सिद्ध्येदवताररहस्यस्य ज्ञातत्वात् । अस्य स्तोत्रम्य
स्य
विलक्षणं फलं विलक्षणकायशुद्धिजनकत्वम् । अजायनाने

पुरुषे जाते तत्तनौ यादृशी विलक्षणा शुद्धिस्तादृशी देहशुद्धि-

र्भवति तद्विषयस्तोत्रविवक्षोः । तत्क्रतुन्याय: प्रेत्य फलं द-

दाति । इदमवतारस्तोत्रमिदैहैव भावितसादृश्यं ददाति ।
 

 
दिशासु दशसु ख्याति: शुभा जृम्भते । एकस्याव-

तारस्यैकस्यां दिशि यश: शःप्रथनेऽपि सनिञ्चिकीर्तयिषितदशाव-

तारैर्दशस्वपि दिशासु यश: पूर्येत । वदान्यस्य बलेर्यशो-

ऽष्टासु दिक्षु प्रख्यापितम् । 'उदारा: सर्व एवैते' इति

कीर्तितस्योदारस्य यशो दशस्वपि दिक्षु तन्यते । एतद्रूपशु-

भख्यातितननमपि प्रथमप्रार्थितशुभान्तर्गतमिव ।
भावना अस्य सिद्धिर्भवति ता
'यादृशी
भावना यस्य सिद्धिर्भवति तादृशी'
'यशोऽहं भवामि

ब्राह्मणानाम्' इत्यवताररूपशुभे आतते तद्विवभोक्षोर्ब्रझमात्रो-

 
● यादृश
 
"