This page has not been fully proofread.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
देवेशस्य । यद्यध्ययं नटाप्रणीर्नायं नटेश: किं तु तस्य
देवस्यापीशो देवेश ॥
 
दशावतारविषयस्तोत्रं विवक्षेत यः । एतत्स्तोत्वविव
क्षामात्रस्य भूयः फलमस्ति । विविदिषामात्रभ्य, वेदनस्य
वा फलत्वेन साध्यत्वं स्यान्मतभेदेन यज्ञादिना अस्या
विवश्वाया: फलं म्यादेव । अवतारदशकविवक्षात्वात् । ए-
कम्य ज्ञेयस्य ब्रह्मणो विविदिषा वा, वेदनं वा लिप्स्येतेति
विप्रतिपत्तिः स्याद्यज्ञादिश्रुत्यर्थविषये । कथं भगवदवतारद-
शकविषयस्तोत्रविवक्षाया भूरिफलवत्वं न स्यात् ? नात्र
विविदिषापर्यन्तापेक्षा । विवक्षामावमलम् । अक्षरराशिप्र
हणमात्रेऽध्ययनविधिपर्यवसानं प्रतिजानीते सूत्रकार: 'अ-
ध्ययनमात्रवतः' इति सूतं प्रणयन् ॥
 
-
 
6
 
व तस्य सरस्वती । वक्रं खलु विवक्षति । तेन खलू-
चार्येत । वतरि वर्व सरस्वती सन्निधत्ते ।
नुषा दश-
रथस्याहम्' इति सीताया भूयान्बहुमान: श्वशुरे । श्वशुर-
स्थापि तुल्यं प्रेम स्नुषायाम् । भर्तुर्ब्रह्मणोऽक्षिदानं वेदसर-
स्वतीदानं च कृतं प्रथमेनावतारेण । इतरे चाबतारा ब्रह्मदत्त
बरासुरपीडानिवर्तनार्थं कृताः । कथं तादृशेषु श्वशुरावतारेषु
सा न रज्येत । भगवत्स्तोत्रे तस्या भूरिरुचिरिति बोध्यते