This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
स्तोत्रमवतु सुसांप्रतमिति व्यज्यते ॥
 
वेङ्कटेश्वरकवौ । कविर्भगवान् । कबिरयं नटः । कवि-
नटभूमिकास्तोत्रं कवौ जातम् । अहिरेव ह्यः पादान्वि-
जानाति न संशयः ।' कवि: कवेर्नटस्य भूमिका: स्तौति ।
कवेर्जनिं कविः सम्यग्जानीयात् । युक्तमिदं देवेशस्यावतार-
स्तोत्रं वेङ्कटेश्वरो रचयामासति ॥
 
१०९
 
कवौ जातं जगन्मङ्गलम् । यथा स्तुत्य : कविः स्रष्टा,
स्तोता कविरपि स्रष्टा । स्तुत्यम्य कवेः स्वेतरसृष्टिर्नियति
कृतनियमवती सुखदुःखमयी । तस्य स्वावताररूपस्व-
सृष्टिस्तु नियतिकृतनियमरहिता स्वेच्छामात्रनिर्वृत्ता ह्लादेक
मयी । स्तोतुः कवेः स्वेतरसृष्टिम्वथैव ह्लादैकमयी । निरति-
गया दैकमयमिदं स्तोत्रम् । कविरूपोदन्वति कबिमतिमा
मथिते जातमिदं जगन्मङ्गलं स्तोत्रम् । यथा क्षीरोदधि-
मथने सर्वमङ्गला जाता, तथेदं जगन्मङ्गलं जातमेतदुद-
वन्मथने । यथा जातो भगवदवतारो जगत्कल्याणभूतस्त-
थेदं तज्जन्मस्तोत्रम् । यादृशं प्रतिपाद्यं भगवजन्म तादृशं
तत्प्रतिपादकस्य स्तोलभ्य जन्म । 'देवो नः शुभमातनोतु'
इति शुभातननप्रार्थनायामेतत्स्तोत्ररूपजगन्मङ्गलविस्तारणम-
व्यन्तर्गतमिव ॥