This page has not been fully proofread.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
भूमिकयास्य पुंसः । स्थाने विधास्यति विभुः स्थिरचिन्ह भेदं
क्रीडानटः स भगवान्कृपया स्त्रसाम्यम् ॥' इति । क्रीडानट
इति प्रथमान्तपाठ आचार्यसंमतः स्यात् ॥
 
१०
 
यज्ञादिभगवदुत्सवान्तेषु वयं भगवन्तं यात्रायातान्सुजन-
निवहांश्च नाटकनाटनेन नृत्तगीतादिना चाराधयामः । ' दे-
वानामिदमामनन्ति मुनयः कान्तं ऋतुं चाक्षुषम्' इति ना-
ट्योपाध्याय: । मुनयो भरतादयः । तच नाटथं बहुधा
भिनरुचेरपि जनस्यैकं समाराधनम् । अस्माभिर्विचित्रवि-
विधनाटकैराराधितः कृतज्ञसार्वभौमो देवः श्रिया सह वि.
विधभूमिकाः परिगृह्य नाटकानि निर्वर्तयति । 'देवानाम् '.
इति लोकपठितषष्ठ्यन्तदेवशब्दस्थाने एतत्स्तोत्रारम्भे प्रथमा-
न्तदेवशब्द इत्यवधेयम् । तत्र नाट्यजनितप्रीत्युद्देश्या देवाः ।
देवोऽत्र स्वयं नटन्मनुष्याणां सभ्यानां प्रीतिविधाता ।
'देवानाम्' इत्यस्य स्थानेऽल 'नः' इति । 'देवो नः' इति शब्दौ
कालिदास श्लोकोतक्रमविपर्ययेण नटसभ्यान् प्रदर्शयत इव ॥
 
नटवद्भूमिका भेदैर्नाथ दीव्यन्पृथग्विधैः । पुंसामनन्य-
भावानां पुष्णासि रसमद्भुतम् ॥ इति यादवाभ्युदये । स
च लोक एतत्स्तोत्रायश्लोकस्यात्यन्तसदृशः । निर्भरत्वरूपत्र-

 
-