This page has been fully proofread once and needs a second look.

१०८
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
सञ्चरेयुः; स्वल्पमूल्यार्थमपि वेगेन विक्रीणीयुरिति प्रति
सि-
द्धम् । एते पुण्यभारार्दितास्तद्दानाय पात्राण्यन्विष्यन्तश्चरन्ति ॥
 

 
विद्योदन्ति बेङ्कटेश्वरकवौ जातं जगन्मङ्गलं

देवेशस्य दशावतारविषयं स्तोत्रं विवक्षेत यः ।

वक्त्रे तस्य सरस्वती बहुमुखी भक्तिः परा मानसे

शुद्धिः कापि तनौ दिशासु दशसु ख्यातिः शुभा जृम्भते ॥
 
+
 

 
अवतारनामावलीर्जल्पन्तः पुरुषा: पुनन्ति भुवनम् । ते

च भूरिपुण्यपण्यापणा इत्युक्तम् । आपणत्वरूपणेन भूरिपु-
ब्

ण्
यसंभारो नामजल्पनमात्रेण लभ्येतेत्यपि व्यञ्जितम् । तज्ज-

ल्पनमात्र श्रोतारस्तत्पुण्यभाज इत्यपि व्याञ्जतम् । इदानीं

मास्तु नाम पठनम्, एतत्स्तोत्रविवक्षामात्रेण भूयः फलं

लभ्येतेति तत्फलं कीर्त्यते ॥
 

 
विद्योदन्वति । समुद्रशायी भगवांस्तत्र त्रिरवततार ।

यदि वयमुदन्वाम्भवेम, अस्मासु सोऽवतरेदिति स्वस्योद-
त्

न्
वत्त्वं संपाद्यते कविना । नायं प्राकृतः क्षारसमुद्रः, क्षीर-

समुद्रो वा । किं त्वप्राकृतशुद्धमधुरैकान्तविद्यासमुद्रः । क-

ल्पान्तयूनो भगवतोऽयं प्रियस्तरूल्पो भवेत् । उदन्वत्यवता-

रस्य भगवतः प्रियत्वात्, अस्मिन्विद्योदन्वत्यवतारविषय-
-