This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
शिपण्यवणिजो राशिभिर्विक्रीणीयुः । राशिपण्यापणाः
पुण्यौघानेव लम्भयेयुर्नाल्पाल्पं द्रोणादिपरिमितं पण्यमिति
व्यज्यते ओघशब्देन । एते आपणाः । न विक्रेतारो वणिजः ।
' तं ज्ञानपण्यं वणिजं वदन्ति' इति ज्ञानविक्रेतारो गर्ह्यन्ते ।
पुण्यपण्यविक्रेता गर्होततराम् । तेषामुरुसंभृतपुण्यपण्यरा-
शयस्तेषु यत्किंचित्सौहार्द यदा कदापि प्रकटितवद्भिर्दायत्वेन
विभज्येरन् । अनन्तपुण्यसंभारवत्त्वादेते पुण्यपण्यापणाः ।
नात्र क्रयो विक्रयो वा । नात्र वणिक् कश्चित् । अवतारद-
शकस्यापि रहस्यवेत्तुरस्येह जन्मन्येव मुक्ति: मिद्धा शरीर
वियोगे सुहृदः माधुकृत्यामुपगच्छन्ति । अभ्य भूरि पुण्यं
विभज्यते सुहृद्धि: । सौहाईमेव पण्यक्रयमूल्यम् । एतज्ज-
ल्पनभ्य श्रवणमपि सोहार्दमेव । तन्मात्रेण पण्यलाभो भव-
तीति ' जल्पन्तः पुनन्ति' इत्यनेन द्योत्यते । जल्पितनाम-
श्रोतृषु स्वभूरिपुण्यं सङ्कमयन्ति । वणिग्रहितपुण्यौघपण्या-
पणेऽस्मिन् यो यद्यदुण्यं वाञ्छति तत्तस्माल्लभेत श्रवणरूप-
सौहृदमात्रेण । नाल्पं लभ्येतास्मादापणात् । ओघैः पुण्यं
लभ्येत । ' पण्यं न चेदस्ति तदस्तु पुण्यम' इति नैषधे ।
एते संचरन्त आपणा: । पण्यसंभारस्यातिभूयस्त्वे संभारल-
घूकरणार्थं सद्यस्तस्य भूरिविनियोगाय पण्यौघानादाय बहिः
 
१०७
 
-
 
-
 
-