This page has been fully proofread once and needs a second look.

१०६
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
मिति व्यज्यते । भावशून्यं स्वरनेत्राङ्गादिविक्रियारहितं ज.
-
ल्पनमध्यलम् । ' जामदग्न्यस्य जल्पतः' इति भीष्मोक्तवत् ।

न रोषरामस्य शास्त्र प्रवचने स्वरनेत्राङ्गविक्रियादिसंभवः ।

तस्य रोषरूपविक्रियैकैव । नान्या विक्रिया ॥
 

 
पुरुषाः । पुरुषमात्रस्यैतन्ना मजल्पनेऽधिकारः । नात्रा-

धिकारिव्यवस्था ॥
 

 
पुनन्ति भुवनम् । पवित्रयन्ति भुवनम् । 'तत्रोपजग्मु-

र्भुवनं पुनाना: ' इति सप्ताहावधिजीवितं परीक्षित मनुग्रहीतुं

श्रीभागवतं च श्रोतुभामागतमहाभागर्षिसङ्घस्येव एषां भुवनपु-

नीतृत्वमिति तच्छब्द प्रयोगेण व्यज्यते । यथा ब्रह्माण्डः प
विवी

वित्री
कृतो भगवद्धोघोणारवैरित्युक्तम्, तथैतेषां जल्पनैः पवि-

त्रीक्रियन्ते भुवनानीति व्यज्यते !!
 
।।
 
पुण्यौघपण्यापणाः । तत्तदवतारकथाश्रवणपठनादिभिः

कोटिकोटिपुण्यलाभ: श्राव्यते तत्तत्फलश्रुतिभिरिति प्रसि
-
द्धम् । दशावतारनाम्नां जल्पनेन तत्फलं कृत्स्नमेभिः सन्विञ्चितं

भवति । पुण्यपण्यसंभारोऽनन्त एषाम् । एते सञ्चरन्तः

पुण्यापणा: । नैतेऽल्पपण्यापणाः किं त्वोघपण्यापणा: ।

अल्पपण्यवणिजो द्रोणादिपरिमितप्रमाणैर्विक्रीणीयुः । एते रा.
 
"
 
-