This page has been fully proofread once and needs a second look.

दशावतारस्तोत्रव्याख्या ।
 

 
क्रीडावल्लव । कुहनागोप, मिथ्यागोप देव इत्युप-

क्रमे व्यक्तिस्य ऋञ्जितिस्य क्रीडिनस्यात्र कण्ठोक्तिः ॥
 
१०५
 

 
कल्कवाहनदशाकल्किन् । कल्कीत्युक्तं तदवतारवर्णन-

श्लोके । कल्क इति कलङ्कार्थक:कः स्यात् । कलियुगेऽवतरन्

कल्की सकल्क: स्यात् । तव्द्यावृत्त्यर्थं कल्कशब्दस्य श्वेताश्व

इत्यर्थो वर्ण्यते । कल्करूपश्वेताश्ववाहनदशायामयं कल्की

भवति । नायं कल्करूपकलङ्कवान् । भाविन्यां कल्कवाह-

नदशायामयं कल्की । कथमसिद्धस्य भविष्यतः संज्ञाकर-

णम्, तस्य च संबोधनमिति चेत्, 'अस्य सूत्रस्य शाटकं

वय' इत्यादाविव भाविनीमवस्थामाश्रित्यापि संज्ञाकरणं सं-

भवेदिति बोध्यते । नायं प्रकार्यसिद्धः । प्रकारमात्रं भावी-

त्यपि व्यज्यते । कल्कवाहनदशायामयं कल्की भवति । तेन

प्रकारेणायं कल्की, नेतरथा दोषत्त्वादिना । ' भाविन्या

दशया भवन्' इति वर्णनानुगुणोऽयं पाठः । कल्कवाइन
हन
दशाकल्पिन्निति पृथक्पाठो वा । इतिशब्दस्याभ्यासस्तदा अ-

पेक्ष्येत । इति दशाकल्पिन्निति प्रत्यहं जल्पन्तः ॥
 
Bak
 

 
इति प्रत्यहं जल्पन्तः । न पूर्वोक्ततत्तदवतारविषयश्लो

कानां जल्पनमपेक्ष्यते । एतच्छ्लोकोक्ततत्तन्नामावलपिलीपठनम-

प्यलम् । न सम्यङ्नामपठनमध्प्यपेक्ष्यते । तज्जल्पनमप्यल-