This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 

 
क्रीडावल्लव । कुहनागोप, मिथ्यागोप देव इत्युप-
क्रमे व्यक्तिस्य ऋडिनस्यात्र कण्ठोक्तिः ॥
 
१०५
 
कल्कवाहनदशाकल्किन् । कल्कीत्युक्तं तदवतारवर्णन-
श्लोके । कल्क इति कलङ्कार्थक: स्यात् । कलियुगेऽवतरन्
कल्की सकल्क: स्यात् । तव्यावृत्त्यर्थं कल्कशब्दस्य श्वेताश्व
इत्यर्थो वर्ण्यते । कल्करूपश्वेताश्ववाहनदशायामयं कल्की
भवति । नायं कल्करूपकलङ्कवान् । भाविन्यां कल्कवाह-
नदशायामयं कल्की । कथमसिद्धस्य भविष्यतः संज्ञाकर-
णम्, तस्य च संबोधनमिति चेत्, 'अस्य सूखस्य शाटकं
वय' इत्यादाविव भाविनीमवस्थामाश्रित्यापि संज्ञाकरणं सं-
भवेदिति बोध्यते । नायं प्रकार्यसिद्धः । प्रकारमात्रं भावी-
त्यपि व्यज्यते । कलकवाहनदशायामयं कल्की भवति । तेन
प्रकारेणायं कल्की, नेतरथा दोषषत्त्वादिना । ' भाविन्या
दशया भवन्' इति वर्णनानुगुणोऽयं पाठः । कल्कवाइन
दशाकल्पिन्निति पृथक्पाठो वा । इतिशब्दस्याभ्यासस्तदा अ-
पेक्ष्येत । इति दशाकल्पिन्निति प्रत्यहं जल्पन्तः ॥
 
Bak
 
इति प्रत्यहं जल्पन्तः । न पूर्वोक्ततत्तदवतारविषयश्लो
कानां जल्पनमपेक्ष्यते । एतच्छलोकोक्ततत्तन्नामावलपिठनम-
प्यलम् । न सम्यङ्नामपठनमध्यपेक्ष्यते । तज्जल्पनमप्यल-