This page has been fully proofread once and needs a second look.

वधेयम् । अध्यक्षितो भावुकैरिति यदुक्तं तदन्वर्थितम् ।
शुभमातनोस्विति प्रार्थितं फलितम् । भक्तानुजिघृक्षया प्रद-
र्शितडोलारोहविषयो दोहद इच्छाशब्देन प्रत्यभिज्ञाप्यते ।
अस्मदनुग्रहे दोहदस्तस्य, यथा गर्भिण्याः । वीक्षणैः प्रजा-
रक्षणं मत्स्यानां स्वभाव इत्युक्तम् । वीक्षणस्थेच्छापर्यायत्वं
वेदान्तेषु । ब्रह्ममीनस्यास्येक्षणं सङ्कल्पार्थकम्, यथा 'तदै -
क्षत बहु स्यां प्रजायेय' इत्यत्र ॥
 
विहारकच्छप । 'विहरते देव: सहैव श्रिया' इत्युक्त-
विहारप्रत्यभिज्ञापनम् । कूर्मस्य ध्यानम् । प्रत्याहारे स दृष्टा-
न्तीक्रियते । तस्य च कथंचिव्द्यञ्जनं विहारशब्देन ॥
 
महापोत्रिन् । पूर्वोतपोत्रिशब्दस्यैव ग्रहणम् । पवित्र-
शब्दसन्निकृष्टत्वात् । मीनशब्दो दिव्यप्रबन्धप्रयुक्तशब्दपरि-
ग्रहाय । कच्छप शब्दः 'मत्स्याश्वकच्छप --' इति शुको-
क्तानुवादाय । महच्छब्दो बृहत्त्वोपपादकः । तन्नाम्नस्त-
त्त्वस्य स्मारणेनेच्छासङ्ग्राहकबुद्धिग्रहणाय च स्वबुद्ध्या
स्वेच्छयायं पोत्र्यभवत् ।।
 
यदृच्छाहरे। यादृच्छिकात्प्रादुर्भवनादित्युक्तं स्मार्यते ।
यदृच्छाप्रादुर्भूतोऽयं हरि: । हरिर्नित्यहरि: स्यात् । अयं