This page has been fully proofread once and needs a second look.

इच्छामीन विहारकच्छप महापोत्रिन् यदृच्छाहरे
रक्षावामन रोषराम करुणाकाकुत्स्थ हेलाहलिन् ।
क्रीडावल्लव कल्कवाहनदशाकल्किन्निति प्रत्यहं
जल्पन्तः पुरुषाः पुनन्ति भुवनं पुण्यौघपण्यापणाः ॥
 
पूर्वोदाहृतशाङ्करश्लोकप्रकारेण सर्वावतारानेकीकृत्याखण्डा.-
नुभवं प्रदर्शयत्यखण्डर मलब्धये । यद्यपि प्रत्येकं पूर्णत्वम-
स्त्येव भगवतः, तथाप्यनेकपूर्णसहानुभवजन्यो रसोऽखण्डतमः
स्यात् । एकस्यैव दश भूमिका: । तासामखण्डानुभवसंपादन-
मुचितम् । दशप्रकाराविशिष्टाद्वैतानुभवो भवेत् । विशिष्टैक्य
मवतारनाटकप्रदर्श्यम् । यथा सर्वचिदचित्प्रकारविशिष्टब्रह्मा-
नुभवस्तथा सर्वावतारप्रकार विशिष्ट प्रकार्यनुभवो निरूप्यते ।
प्रथमश्लोके समासः । अनन्तरं दशभिः श्लोकैर्व्यासः ।
पुनरपि निगमनरूपसमासः । तार्किकसिंहोऽयं कविसिंहो-
अनुमानसरणिणिं न जहाति। प्रथमश्लोके प्रतिज्ञा । अत्र
निगमनम् । विशिष्टवैशिष्ट्यावगाहिज्ञानरूपं फलं लभ्यते ।
प्रायेण तत्तत्पूर्वश्लोकोक्तानुभवा अत्रत्यैः शब्दैः सङ्गृह्यन्ते ॥
 
१०२
 
M
 
इच्छामीन । पूर्वं परोक्षतया प्रार्थना भगवतः । इदानीं
तत्तच्छ्लोकानुभवेनाध्यक्षितं भगवन्तं समक्षं संबोधयतीत्य
 
-