This page has not been fully proofread.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
इच्छामीन विहारकच्छप महापोत्रिन् यदृच्छाहरे

रक्षावामन रोषराम करुणाकाकुत्स्थ हेलालिन् ।

क्रीडावल्लव कल्कवाहनदशा कल्किभिन्निति प्रत्यहं

जल्पन्तः पुरुषाः पुनन्ति भुवनं पुण्यौघपण्यापणाः ॥

 
पूर्वोदाहृतशाङ्करलोकप्रकारेण सर्वावतारानेकीकृत्याखण्डा.

नुभवं प्रदर्शयत्यखण्डर मलब्धये । यद्यपि प्रत्येकं पूर्णत्वम-

स्त्येव भगवतः, तथाप्यनेकपूर्णसहानुभवजन्यो रसोऽखण्डतमः

स्यात् । एकस्यैव दश भूमिका: । तासामखण्डानुभवसंपादन-

मुचितम् । दशप्रकारावशिष्टाद्वैतानुभवो भवेत् । विशिष्टैक्य

मवतारनाटकप्रदर्श्यम् । यथा सर्वचिदचित्प्रकारविशिष्टब्रह्मा-

नुभवस्तथा सर्वावतारप्रकार विशिष्ट प्रकार्यनुभवो निरूप्यते ।

प्रथमश्लोके समासः । अनन्तरं दशभिः श्लोकैर्व्यासः ।

पुनरपि निगमनरूपसमासः । तार्किकसिंहोऽयं कविसिंहो-

अनुमानसरणि न जहाति। प्रथमश्लोके प्रतिज्ञा । अत्र

निगमनम् । विशिष्टवैशिष्ट्यावगाहिज्ञानरूपं फलं लभ्यते ।

प्रायेण तत्तत्पूर्वश्लोकोक्तानुभवा अत्रत्यैः शब्दैः सङ्गृह्यन्ते ॥
 

 
१०२
 

 
M
 

 
इच्छामीन । पूर्व परोक्षतया प्रार्थना भगवतः । इदानीं

तत्तच्लोकानुभवेनाध्यक्षितं भगवन्तं समक्षं संबोधयतीत्य
 

 
-