This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
१०१
 
यश: कलिमलापहम् ॥
 
कलिकथाकालुष्यकूलंकषः । अयं धाराघरहस्तः प्रभूतं
धर्मं वृष्ट्वा काळुष्यमपनुदति । धर्ममेघेन धर्मेण पापमपनु-
दति। कलिकथां कथाशेषं नयति । कथायाः कथाभवनं
 
न्याय्यम् ॥
 
निःशेषेत्यादि । नैकोऽप्यकण्टको भवति । कृत्स्नं परि-
वर्तयित्वा नूतनशुद्ध प्ररोहा अवतार्यन्ते ॥
 
धाराजलौघैः । कण्टकक्षपणसाधनो निबिंशो धर्मजलौ-
घवर्षुकधाराधरोऽपि भवति । दुष्कृद्विनाशनमेव धर्मसंस्था-
पनसाधनमपि भवति ॥
 
ध्रुवम् ध्रुवं धर्म प्ररोहयति । धर्म ध्रुवं प्ररोहयति । ध्रुव-
मित्युत्प्रेक्षार्थकत्वमपि । धाराधरत्वेनोत्प्रेक्षा समर्थ्यते ॥
 
धर्म कार्तयुगं प्ररोहयति । त्रेतायुगप्रवर्तितकार्तयुगवृ-
तान्तो धर्मो विप्रहबांश्चक्रवर्तितनूजः । अयं कलियुगे त
द्धर्म प्ररोहयति ॥
 
यन्निस्त्रिंशधाराधरः । अस्य मेघस्य खङ्गोऽषि मेघो
भवति ॥