This page has been fully proofread once and needs a second look.

भाविन्या दशया भवन्निह । परिदृश्यमाना इतरावता-
रमूर्तयो भूतदशया भवन्तः । अयं तु भाविदशया भवन् ।
सर्वेषामवताराणां व्यवहितत्वं तुल्यम् । इतरेषु भूतका-
लव्यवधानमत्र भविष्यकालव्यवधानमिति भेदः । सर्वेषां
भवत्त्वरूपवर्तमानत्वतुल्यस्वमपि तुल्यमिति भवच्छब्देन
व्यज्यते । अध्यक्षयिता सर्वशक्तो भगवान् । कर्मोपाधिहाने
न त्रिकालभेदः । सर्वोऽपि काल: सततवर्तमान एव स्यात् ।
भगवता स्वावताराध्यक्षीकरणे भविष्यन्नपि भवन् भवेदिति
व्यज्यते ॥
 
भवध्वंसाय नः कल्पताम् । किं शुभमस्माद्भाव्यते ।
न दुःखध्वंसः, किं तु भवध्वंसः । भवन्नयं भवध्वंसं तनो-
त्विति विरोधोऽप्यापाततश्चारु व्यज्यते ॥
 
कल्की । श्वेताश्वविशिष्टः ॥
 
विष्णुयशः सुतः । विष्णुयशसो जातोऽयम् । प्रणष्टप्राये
विष्णुयशसि तद्यशोरूपकार्तयुगधर्मं प्रतिष्ठापयिष्यन्नयं यशो-
नामा जनिष्यते । 'तस्य नाम महद्यशः' इति भगवतो
यशोनामत्वं प्रसिद्धम् । तस्य विष्णुयशोनामा ब्राह्मणोऽनुरूप:
पितेति व्यज्यते । तमसावृते कलावयं यशसो जातः । अस्