This page has been fully proofread once and needs a second look.

10.0
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
भाविन्या दशया भवन्निह । परिदृश्यमाना इतरावता-

रमूर्तयो भूतदशया भवन्तः । अयं तु भाविदशया भवन् ।

सर्वेषामवताराणां व्यवहितत्वं तुल्यम् । इतरेषु भूतका-

लव्यवधानमत्र भविष्यकालव्यवधानमिति भेदः । सर्वेषां

भवत्त्वरूपवर्तमानत्व तुल्यस्वमपि तुल्यमिति भवच्छन्न
ब्देन
व्यज्यते । अध्यक्षायषयिता सर्वशक्तो भगवान् । कर्मोपाधिहाने

न त्रिकालभेदः । सर्वोऽपि काल: सततवर्तमान एव स्यात् ।

भगवता स्वावताराध्यक्षीकरणे भविष्यत्रन्नपि भवन् भवेदिति

व्यज्यते ॥
 

 
भवध्वंसाय नः कल्पताम् । किं शुभमस्माद्भाव्यते ।

न दुःखध्वंसः, किं तु भवध्वंसः । भवन्नयं भवध्वंसं तनो
-
त्विति विरोधोऽप्यापाततश्चारु व्यज्यते ॥
 

 
कल्की । श्वेताश्वविशिष्टः ॥
 

 

 
विष्णुयशः सुतः । विष्णुयशसो जातोऽयम् । प्रणष्टप्राये

विष्णुयशसि तद्यशोरूपकार्तयुगधर्मं प्रतिष्ठायिष्यत्रन्नयं यशो-

नामा जनिष्यते । 'तस्य नाम महद्यशः' इति भगवतो

यशोनामत्वं प्रसिद्धम् । तस्य विष्णुयशोनामा ब्राह्मणोऽनुरूप:

पितेति व्यन्ज्यते । तमसावृते कलावयं यशसो जातः । अस्व
 
CHE