This page has not been fully proofread.

दशावतारस्तो त्रव्याख्या ।
 
,
 
जनैरेव व्याप्येत 'उत्खातलोकत्रयकण्ट केऽपि' इति राघ-
वस्य प्रथा लोककण्टकभूतरावण संहारेण । 'त्रिदिवमुद्धृतदा-
नवकण्टकम' इत्यन्यदा दानवमात्रस्य कण्टकत्वम् । कलि
युगान्ते नष्टवायत्वाद्धर्मस्याघरोत्तरत्वात्सर्वस्य निःशेषजना:
कण्टकभिवेरन् । कृत्स्नकण्टकजनानां क्षतिः कार्येत श्वेताश्वा-
रूढेन निर्खिशधरेण भगवता । संहार: सृष्टिचोभयमपि प्रद
र्येतानेनावतारेण । लक्षद्वय समन्वयस्तेनोपपाद्येत । संहा-
रोऽप्यनुग्रहे पर्यवस्येदिति निस्त्रिंशस्यापि मेघत्वम् तेन च
धर्ममेघेन कार्तयुगधर्मबीजप्ररोहजनकत्वं च वर्ण्यते । अयं
चावतारो भावी, न वृत्तः । वृत्ता अवतारा अद्यापि सन्ति,
आराध्यन्ते च तत्तद्वर्षेष्विति श्रीभागवते प्रोच्यते पश्चमस्क-
न्धे । 'रम्यके भगवतः प्रियतमं मात्स्यमवताररूपं तद्वंशपु-
रुषस्य मनोः प्राक्प्रदर्शितम्, स इदानीमपि महता भक्तियो-
गेनाराधयति' इत्यादिना । तादृशभक्तियोगं विनैव निर्भरत्वप्रप-
त्यारूढानां भावुकानामस्माकं भक्तिभराङ्गीकर्ता भगवता स्वयं
प्रत्यक्षवत्प्रदर्श्यन्ते वृत्तावताररूपाणीति प्रथमलोके व्यक्ति-
तमाचार्यै: 'लब्धनिर्भररसैरभ्यक्षितो भावुकै : ' इति
वृत्तावतारा: सम्यग्वर्णिता महर्षिभिः । भविष्यदद्वतारोऽयम् ।
भूतावतार भावनाद्भाव्यवतारभावनं तिरं स्यात् ॥
 
९९