This page has been fully proofread once and needs a second look.

'अव्याहतं' क्वचिदप्यप्रतिहतं 'सिध्येत्'-- 'स एकधा भवति
त्रिधा भवति’[^1] 'स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितर-
स्समुपतिष्ठन्ते’[^2] इत्यादिश्रुत्युक्तं सर्वं भवेदित्यर्थः ॥ १० ॥
 
एवमेषा कृता व्याख्या दक्षिणाशामुखस्तुतेः ।
यथामति तया तुष्टो दक्षिणामूर्तिरस्तु नः ॥
 
इति श्रीमत्परमहंसपरिव्राजकाचार्यकैवल्यानन्दयोगीन्द्रपादकमल-
भृङ्गायमाणस्वयम्प्रकाशयतिविरचितश्रीदक्षिणामूर्तिस्तोत्र-
व्याख्या तत्त्वसुधाख्या समाप्ता.
 
[^1] छां. ७-२६.
[^2] छां. ८-२.