This page has not been fully proofread.

श्रीदक्षिणामूर्तिस्तोत्रम्.
 
'अव्याहतं ' क्वचिदप्यप्रतिहतं 'सिध्येत् ' – ' स एकघा भवति
-
त्रिधा भवति 2 ' स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितर-
स्समुपतिष्ठन्ते " इत्यादिश्रुत्युक्तं सर्वं भवेदित्यर्थः ॥ १० ॥
एवमेषा कृता व्याख्या दक्षिणाशामुखस्तुतेः ।
यथामति तया तुष्टो दक्षिणामूर्तिरस्तु नः ॥
 
२४
 
इति श्रीमत्परमहंसपरिव्राजकाचार्यकैवल्यानन्दयोगीन्द्रपादकमल-
भृङ्गायमाणस्वयम्प्रकाशयतिविरचितश्रीदक्षिणामूर्तिस्तोत्र-
व्याख्या तत्त्वसुधाख्या समाप्ता.
 
छां. ७.२६.
 
छां. ८.२.