This page has been fully proofread once and needs a second look.

इदानीमेतत्स्तोत्रपाठादौ प्रवृत्तानां पुरुषधौरेयाणामवश्यंभावि फलं
कीर्तयन् स्तोत्रमुपसंहरति-- सर्वात्मत्वमिति ॥
 
सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिं
स्तवे तेनास्य श्रवणात्तदर्थमननाद्ध्यानाच्च सङ्की-
र्तनात् । सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वर-
त्वं स्वतस्सिध्येत्तत्पुनरष्टधा परिणतं चैश्वर्यम-
व्याहतम् ॥ १० ॥
 
'इति' उक्तप्रकारेण 'अमुष्मिं स्तवे' अस्मिन् स्तोत्रे 'इदं'
श्रुतिषु 'इदं सर्वं यदयमात्मा’[^1] इत्यादिषु श्रूयमाणं 'सर्वात्मत्वं'
प्रत्यगात्मनस्स्वरूपत्वं 'स्फुटीकृतं' स्फुटमावेदितं 'यस्मात्' ‘ते-
नास्य' स्तोत्रस्य 'श्रवणात्' गुरुतो विधिवच्छ्रवणात् 'तदर्थम-
ननात्' श्रुतस्यार्थस्य युक्तिभिरनुचिन्तनात् 'ध्यानात्' श्रवणमनना-
भ्यां निर्णीतस्य तथैव सोहं सर्वात्मा परमेश्वरोस्मीति विजातीयप्रत्यय-
तिरस्कारेण सजातीयप्रत्ययैकविषयीकरणात् 'सङ्कीर्तनात्' सम्य-
क्परेभ्यः कथनाच्च 'सर्वात्मत्वमहाविभूतिसहितम्' सर्वात्मत्वमेव म-
हाविभूति: महती सिद्धिरणिमाद्यपेक्षया, तस्य त्रिविधपरिच्छेदशून्य-
त्वात्, तया सहितं युक्तं 'ईश्वरत्वं' सत्यज्ञानानन्दलक्षणपरमेश्वरत्वं,
'तत्' श्रुतिप्रसिद्धं 'स्वतः' एव नित्यं विद्यमानं 'स्यात्'
भवेत्, अधुना ज्ञायत इत्यर्थः । 'पुनः' भूयः 'अष्टधा’ अष्टप्रका-
रेण 'परिणतं' मायापरिणामरूपं 'ऐश्वर्यं च' अणिमादिकं
 
[^1] बृ. ४-५-७.