This page has not been fully proofread.

सव्याख्यम्.
 
२३
 
इदानीमेतत्स्तोत्रपाठादौ प्रवृत्तानां पुरुषधौरेयाणामवश्यंभावि फलं
कीर्तयन् स्तोत्रमुपसंहरति — सर्वात्मत्वमिति ॥
 
सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मि
स्तवे तेनास्य श्रवणात्तदर्थमननाड्यानाच्च सङ्की-
र्तनात् । सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वर-
त्वं स्वतस्सिध्येत्तत्पुनरष्टधा परिणतं चैश्वर्यम-
व्याहतम् ॥ १० ॥
 
6
 
,
 
' इति ' उक्तप्रकारेण 'अमुष्मि स्तवे' अस्मिन् स्तोत्रे 'इदं '
श्रुतिषु 'इदं सर्वं यदयमात्मा " इत्यादिषु श्रूयमाणं 'सर्वात्मत्वं'
प्रत्यगात्मनस्स्वरूपत्वं ' स्फुटीकृतं ' स्फुटमावेदितं 'यस्मात् ' 'ते-
नास्य ' स्तोत्रस्य 'श्रवणात् ' गुरुतो विधिवच्छ्रवणात् 'तदर्थम-
ननात्' श्रुतस्यार्थस्य युक्तिभिरनुचिन्तनात् 'ध्यानात् ' श्रवणमनना-
भ्यां निर्णीतस्य तथैव सोहं सर्वात्मा परमेश्वरोस्मीति विजातीयप्रत्यय-
तिरस्कारेण सजातीयप्रत्ययैकविषयीकरणात् 'सङ्कीर्तनात् ' सम्य-
क्परेभ्यः कथनाच्च 'सर्वात्मत्वमहाविभूतिसहितम् ' सर्वात्मत्वमेव म
हाविभूति: महती सिद्धिरणिमाद्यपेक्षया, तस्य त्रिविधपरिच्छेदशून्य-
त्वात्, तया सहितं युक्तं ' ईश्वरत्वं' सत्यज्ञानानन्दलक्षणपरमेश्वरत्वं,
' तत् ' श्रुतिप्रसिद्धं 'स्वतः ' एव नित्यं विद्यमानं 'स्यात् '
भवेत्, अधुना ज्ञायत इत्यर्थः । 'पुनः' भूयः 'अष्टधा अष्टप्रका-
रेण 'परिणतं ' मायापरिणामरूपं 'ऐश्वर्यं च ' अणिमादिकं
 
"
 
बृ. ४-५-७,