This page has been fully proofread once and needs a second look.

तत्सायुज्यं प्राप्य सर्वैश्वर्यसम्पन्नोन्ते तत्प्रसादासादिततत्त्वज्ञानेन तत्त्व -
साक्षात्कारेण विमुच्यत इति । 'विमृशतां' तत्त्वं विधिवद्गुरुश्रुतिभ्यो
युक्तया चानिशं विचारयतां पुरुषाणां 'परस्मात्' सर्वकारणात्
'विभोः' विविधप्रपञ्चात्मना भवतः विवर्तमानात् 'यस्मात्' सर्वा-
धिष्ठानात् सच्चिदानन्दात्मकात्परमेश्वरादन्यत् पृथक् 'किञ्चन'
किञ्चिदपि न विद्यते न भवति, सर्वस्य तस्मिन् परमेश्वरेध्यस्तत्वेन
तन्मात्रत्वात् । तथा चोक्तं महिम्नस्तवे-

त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह-
स्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च ।
परिछिन्नामेवं त्वयि परिणतां बिभ्रति गिरं
न विद्मस्तत्तत्त्वं वयमिह तु यत्त्वं न भवसि ॥[^1] इति ।

श्रुतिश्च--

'विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं च यत् ।
सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु ।’[^2]

'यस्मात्परं नापरमस्ति किञ्चिद्यस्मान्नाणीयो न ज्यायोस्ति कश्चित् ।
वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् ।’[^3]

इत्याद्याः । स्तब्धः निश्चलः, दिवि स्वप्रकाशे स्वरूपे । तथा
चोक्तरूपब्रह्मात्मज्ञानादुत्तमाधिकारिणामिहैव सच्चिदानन्दाद्वयपरशिव-
रूपेणावस्थानलक्षणा मुक्तिरासाद्यते, 'अत्र ब्रह्म समश्नुते’[^4] इत्यादि
श्रुतेरिति भावः । तस्मै ज्ञानोपदेष्ट्रे गुरुरूपाय दक्षिणामूर्तये परमे-
श्वराय नमोस्त्विति ॥
 
[‍^1] २७ श्लो.
[^2] तै. उ. ४-२४.
[^3] तै. उ. ४-१२.
[^4] कठो. ६-१४.