This page has not been fully proofread.

२२
 
श्रीदक्षिणामूर्तिस्तोत्रम्.
 
तत्सायुज्यं प्राप्य सर्वैश्वर्यसम्पन्नोन्ते तत्प्रसादासादिततत्त्वज्ञानेन तत्त्व -
साक्षात्कारेण विमुच्यत इति । 'विमृशतां ' तत्वं विधिवद्गुरुश्रुतिभ्यो
युक्तया चानिशं विचारयतां पुरुषाणां 'परस्मात् ' सर्वकारणात्
'विभोः' विविधप्रपञ्चात्मना भवतः विवर्तमानात् 'यस्मात् ' सर्वा-
धिष्ठानात् सच्चिदानन्दात्मकात्परमेश्वरादन्यत् पृथक् 'किञ्चन '
किञ्चिदपि न विद्यते न भवति, सर्वस्य तस्मिन् परमेश्वरेध्यस्तत्वेन
तन्मात्रत्वात् । तथा चोक्तं महिम्नस्तवे-
त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह-
स्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च ।
परिछिन्नामेवं त्वयि परिणतां बिभ्रति गिरं
 
न विद्मस्तत्तत्त्वं वयमिह तु यत्त्वं न भवसि ॥ इति ।
श्रुतिश्च -
 
' विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं च यत् ।
सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु ।
 
12
 
3
 
'यस्मात्परं नापरमस्ति किञ्चिद्यस्मान्नाणीयो न ज्यायोस्ति कश्चित् ।
वृक्ष इव स्तब्धो दिवि तिष्ठत्येक स्तेनेदं पूर्ण पुरुषेण सर्वम् ।
इत्याद्याः । स्तब्धः निश्चलः, दिवि स्वप्रकाशे स्वरूपे । तथा
चोक्तरूपब्रह्मात्मज्ञानादुत्तमाधिकारिणामिहैव सच्चिदानन्दाद्वयपरशिव-
रूपेणावस्थानलक्षणा मुक्तिरासाद्यते, 'अत्र ब्रह्म समभुते 4 इत्यादि
श्रुतेरिति भावः । तस्मै ज्ञानोपदेष्ट्रे गुरुरूपाय दक्षिणामूर्तये परमे-
श्वराय नमोस्त्विति ॥
 
1 २७ श्लो. 2तै. उ. ४-२४. उतै. उ. ४-१२, 4 कठो, ६-१४,