This page has not been fully proofread.

सव्याख्यम्.
 
२१
 
ततस्सर्वस्य परमार्थतो ब्रह्ममात्रत्वेपि मायावशाङ्क्रान्त्या सर्वमुपपद्यत
इति । कार्यं जन्यम्, कारणं जनकम्, स्वं गृहक्षेत्रघनादि, स्वामी
तद्वान् देवदत्तादिः, शिष्यः विद्याग्रहणार्थं विधिवद्गुरुमुपसन्नः, आचार्यः
विद्योपदेष्टा, पिता निषेक्ता, पुत्रस्तच्छुक्कसम्भवः, इत्यादिरूपेण विश्वं
यः पश्यति तस्मै नम इति सम्बन्धः ॥ ८ ॥
 
इदानीमुक्तरूपब्रह्मापरोक्षज्ञाने मन्दाधिकारिणामष्टमूर्त्यापासनं क्रम
मुक्तिदायकं, उत्तमाधिकारिणां श्रोतव्यादिश्रुतिसिद्धवेदान्ततद्विषयब-
ह्मविचारस्साधनमित्यभिप्रेत्याह -भूरम्भांसीति ॥
 
भूरम्भांस्यनलोऽनिलोम्बरमहर्नाथो हिमांशुः पुमा-
नित्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् ।
नान्यत्किञ्चन विद्यते विमृशतां यस्मात्परस्माद्विभोः
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥९॥
 
'अनि-
'भू: ' पृथिवी, 'अम्भांसि ' जलानि, 'अनलः ' अग्निः,
लो' वायुः, 'अम्बरं' आकाश:, 'अहर्नाथः ' सूर्यः, 'हिमांशुः '
चन्द्र', 'पुमान् ' सकलकर्मविद्याधिकारी जीव:, ' इति ' एवम्प्रकारे-
ण, 'यस्यैव' परमेश्वरस्य सर्वज्ञस्य सर्वशक्तेः सच्चिदानन्दाद्वयस्य
सदाशिवस्यैव ' मूर्त्यष्टकं' मूर्तीनां विग्रहभूतानामष्टकं 'आभाति '
आ समन्ताङ्क्राति । अयमर्थः - उपासकस्स्वदेहे वर्तमानपञ्चभूतानि व्य-
ष्टिभूतानि समष्टिभूतैः प्राणापानौ च सूर्यशशाङ्काभ्यामेकीकृत्य, पञ्च-
भूतात्मकशरीराभिमानिनं स्वात्मानमष्टमूर्ति परमेश्वरेणैकीकृत्य, सकल-
व्यापी अष्टमूर्त्यात्मकस्सदाशिवोस्मीति चिन्तयेत् । ततो भावनातिशयेन