This page has not been fully proofread.

स्वप्ने जाग्रति वा य एष पुरुषो मायापरिभ्रामितः
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥८॥
 
'पुरुष:' पूर्ण: 'यः' श्रुत्यन्तप्रसिद्धः परमेश्वरो 'मायापरि-
भ्रामितः' स्वोपाधिभूतमायया मलिनसत्त्वप्रधानया कार्यकारणसङ्घा-
ताकारेण परिणतया स्वेन प्रविष्टया परिभ्रामितः बहुविधं भ्रमं प्रापितः
'एष:' सर्वप्राण्यपरोक्षजीवस्सन् संसारित्वेन भावितः, 'विश्वं' जगत्
'भेदतः' बहुभेदभिन्नतया भ्रमेण 'पश्यति’ अवलोकयति । भेद-
मेव दर्शयति—'कार्यकारणतया' इत्यादिना । अयमर्थः–-यद्यपि
परमार्थतो ब्रह्मव्यतिरिक्तं किमपि नास्त्येव, 'नेह नानास्ति किञ्चन’[^1]
इत्यादिना श्रुत्या निषेधात्; तथापि अनाद्यनिर्वाच्याविद्यावशान्मुधैव
भ्रान्तो जीवः प्रपञ्चं बहुभेदभिन्नं पश्यति, निद्रापरवश इवानेकविधं स्व-
प्नम् । तस्य च वस्तुतो ब्रह्मैव सन्तमात्मानं निखिलानर्थसङ्कुलया मायया
भ्राम्यतः स्वभ्रान्तिसिद्धगुरुशास्त्रन्यायादिभ्यो विद्योत्पत्तावविद्या सवा-
सना निवर्तते, निद्राणस्येव स्वाप्नव्याघ्रदर्शनसमुपजातभयेन प्रबुद्धस्य
स्वप्नः । ततस्संसारान्मुक्तः स्वस्वरूपे सच्चिदानन्दात्मनि निरतिशयम-
हत्त्वसम्पन्न एव रममाणोवतिष्ठते । तदुक्तं सर्वज्ञात्ममुनिभिः—
 
तस्माद्ब्रह्मविद्यया जीवभावं प्राप्य स्थित्वा तावके तु स्वरूपे ।
त्वचित्तेन स्पन्दितं विश्वजात*माकाशादि क्ष्मावसानं च पश्येः ॥
स्वीयाविद्याकल्पिताचार्य वेदन्यायादिभ्यो जायते तस्य विद्या ।
विद्याजन्मध्वस्तमोहस्य तस्य स्वीये रूपेवस्थितिस्स्वप्रकाशे ॥[^1] इति
 
[^1] बृ.३-९-२८.
*जीवजातमिति मुद्रितसंक्षेपशारीरककोशपाठ:.