This page has been fully proofread once and needs a second look.

व्यम् । एवम्भूतं प्रत्यगात्मानं 'यः' परमेश्वरः, 'स्वात्मानमेव' स्वं
'सत्यं ज्ञानमनन्तं ब्रह्म’[^1] ‘विज्ञानमानन्दं ब्रह्म’[‍^2] इत्यादिषु श्रुतिषु
सच्चिदानन्दात्मकत्वेन त्रिविधपरिच्छेदशून्यतया च प्रसिद्धः परमेश्वर
एवात्मा स्वरूपं यस्य प्रत्यगात्मनः, न तु कर्त्रादिरूपेण प्रतीयमानः
आत्मा सः स्वात्मा प्रत्यगात्मा, तं स्वात्मानं ब्रह्माभिन्नमिति यावत्,
'भद्रया' शोभनया 'मुद्रया' करकलितज्ञानमुद्रया 'भजतां'
स्वभक्तानां 'प्रकटीकरोति' तेषां प्रत्यगात्मानं ब्रह्मस्वरूपत्वेनाप्रकटं
प्रकटं करोति स्फोरयति । तस्मै नमः ॥
 
बाल्यादिषु तथा जाग्रदादिष्वपि सर्वास्ववस्थासु व्यावृत्तास्वनुवर्तमानं
सदाऽन्तरहमिति स्फुरन्तं भजतां प्रत्यगात्मानं यो भद्रया मुद्रया स्वात्मानं
प्रकटीकरोति तस्मै नम इत्यन्वयः ॥ ७ ॥
 
ननु ब्रह्मव्यतिरिक्तं चेत्किमपि न वस्त्वस्ति, तर्हि कथं परमार्थोप-
देशादिव्यवहारः ? न हि जातु कश्चित्तत्र बद्धोस्ति, येन बन्धनिवृत्तये
विद्योपदेशस्स्यात्, बन्धहेतोः कस्याप्यभावात् । नापि विद्यावतो मुक्ति-
स्सम्भवति तद्धेतुगुरुशास्त्रादीनामभावादित्याशङ्कय अनाद्यनिर्वचनीय-
परमात्माध्यस्तमायावशादेव सर्वो व्यवहारो ब्रह्मसाक्षात्कारपर्यन्तं घटत
इत्यभिप्रेत्याह-- विश्वं पश्यतीति ॥
 
विश्वं पश्यति कार्यकारणतया स्वस्वामिसम्बन्धत-
श्शिष्याचार्यतया तथैव पितृपुत्त्राद्यात्मना भेदतः ।
 
[‍^1] तै. उ. २-१.
[^2] बृह. ५-९-२८.