This page has been fully proofread once and needs a second look.

‘तथा अन्यास्वप्यवान्तरासु दर्शनश्रवणादिरूपासु कर्तृत्वभोक्तृत्वादि-
रूपासु च ‘सर्वास्ववस्थासु’ दशासु ‘व्यावृत्तासु’ परस्परं व्यावर्तमानासु
‘अनुवर्तमानं’ अनुगततया सर्वास्ववस्थासु वर्तमानम्। अयं भावः--
यो ह्यसत्यजडानानन्दरूपासु सर्वास्ववस्थासु व्यावर्तमानासु योहं सुप्तौ
स्वप्नमद्राक्षं सोहमिदानीं जागर्मीति अवस्थात्रये, योहं बालो युवा चा-
भूवं सोहमिदानीं वृद्धोस्मीति बाल्यादिष्वपि च सत्त्वेनानुवर्तमानोनूभूयते,
तथा द्रष्टृत्वेनाभिमतेषु चक्षुरादिषु व्यावर्तमानेषु स्वयं तत्सकलसाक्षित्वेन
यश्चिद्रूपस्सदानुवर्तमानोनुभूयते, तथा प्रियत्वेनाभिमतवित्तपुत्त्रपिण्डादिषु
व्यावर्तमानेषु च यस्स्वयं सदा प्रीतिविषयः सर्वशेषित्वेन निरतिशय-
प्रीतिविषयतया आनन्दरूपत्वेनानुवर्तमानोनुभूयते, तद्वदेवाहंबुद्धिविषय-
तयात्मत्वेनाभिमतेषु देहादिभोक्वन्तेषु व्यावर्तमानेषु यश्च स्वयमहंबुद्धिम-
व्यभिचरन् सदा आत्मत्वेनानुवर्तमानोनुभूयते, ततस्सद्रूपत्वं चिद्रूपत्व-
मानन्दरूपतया प्रियत्वं अहंबुद्धिविषयतया प्रत्यक्त्वं च यः कदापि
न व्यभिचरति स एव त्वंपदलक्ष्यार्थ आत्मेति । तथा च तापनी-
यश्रुतिः-- 'तं वा एतमात्मानं जाग्रत्यस्वप्नमसुषुप्तं स्वप्नेऽजाग्रतमसुषुप्तं
सुषुप्तेऽजाग्रतमस्वप्नं तुरीयेऽजाग्रतमस्वप्नमसुषुप्तमव्यभिचारिणं नित्या-
नन्दसदैकरसं ह्येव चक्षुषो द्रष्टा श्रोत्रस्य द्रष्टा वाचो द्रष्टा मनसो
द्रष्टा बुद्धेर्द्रष्टा प्राणस्य द्रष्टा तमसो द्रष्टा सर्वस्य द्रष्टा' [‌^1] इति । एत-
देवाह-- अहमित्यन्तस्स्फुरन्तं सदेति । 'अन्तः' शरीरादिषु मध्ये
'अहमिति' अहंबुद्धिविषयत्वेन 'सदा' सर्वेष्वपि कालेषु 'स्फुरन्तं' भास-
मानं, उपलक्षणमेतत्, सत्त्वेन प्रियत्वेन च सदा स्फुरन्तमित्यपि द्रष्ट-
 
[^1] नृसिंहोत्तरता. २ खण्डे.