This page has not been fully proofread.

१७
 
सव्याख्यम्.
 
,
 

सुषुप्तित उत्थानसमये, 'प्रत्यभिज्ञायते ' । कथम् ? 'प्राकूक्' योहं

'अस्वाप्सं ' स इदानीं जागर्मीति । न च तदाननुभूतस्य प्रत्य-

भिज्ञानं सम्भवति, अन्यत्र देवदत्तादननुभूते प्रत्यभिज्ञानादर्शनात् ।

न च तदा करणेनात्मानुभवः, इन्द्रियादिकरणानां सुषुप्तावभावात् ।

अतस्स्वप्रकाशस्यात्मनस्सत्त्वान्न तदा शून्यत्वम् । नापि तस्य क्षणि-

कत्वम् ; नापि जडत्वमुक्तयुक्तेरेव ॥
 
1
 
6
 

सुषुप्तिकाले सकले विलीने तमोभिभूतस्सुखरूपमेति ।

पुनश्च जन्मान्तरकर्मयोगात्स एव जीवस्स्वपिति प्रबुद्धः[^1]

'
सता सोम्य तदा सम्पन्न भवति "'[^2] इत्यादिश्रुतिश्चात्मनस्सच्चिदा-

नन्दरूपत्वेन सुषुप्ताववस्थानं दर्शयति । आत्मनस्मुसुखरूपत्वं चोत्थितेन

तेनानुसन्धीयते सुखमहमस्वाप्समिति । अतो न कोपि दोष इति

भावः ॥ ६ ॥
 

 
इदानीं मुञ्जादिषीकामिव देहादिभ्यो विविच्य सच्चिदानन्दरूपं प्र-

त्यगात्मानं प्रदर्श्य, तस्य परमेश्वराभेदं श्रुतिगुर्वीश्वरप्रसादलभ्यं प्रदर्श-

यन्नाह बाल्यादिष्विति ॥
 

 
बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि

व्यावृत्तास्वनुवर्तमानमहमित्यन्तस्स्फुरन्तं सदा ।

स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया

तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥७॥
 

 
'बाल्यादिषु' बाल्यं शैशवं, तदादिषु शैशवकौमारयौवनमध्यवयस्स्था

विररूपासु, 'जाग्रदादिषु' जाग्रत्स्वमसुषुप्तिमूर्छाजन्मजरामरणरूपासु,
2

 
[^1]
कैवल्योपनिषत्.
 

[^2]
छां. ६-८-१.
 
C