This page has been fully proofread once and needs a second look.


राहुग्रस्तदिवाकरेन्दुसदृशो मायासमाच्छादना-
त्सन्मात्रः करणोपसंहरणतो योभूत्सुषुप्तः पुमान् ।
प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिज्ञायते
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥६॥
 
'यः पुमान्' प्रत्यग्रूपः परमेश्वरः 'करणोपसंहरणतः' विशेष-
विज्ञानहेतुचक्षुरादिकरणानामुपसंहारात् 'सन्मात्र:' पूर्णान्दादिरू-
पेण स्फुटमप्रकाशमानतया केवलं सन्मात्रेणावस्थितस्सन् 'सुषुप्तो-
भूत्' सुप्तिं प्राप्तोभूत् । करणाभावेपि पूर्णानन्दभानवतो मुक्ता-
त्मनस्सकाशात्सुषुतात्मनो वैषम्यमाह - --'मायासमाच्छादनात् ' इति ।
माययाऽऽत्माविद्यया समाच्छादनादावरणात्, सन्मात्र इति सम्बन्धः ।
स्फुटमप्रकाशमानस्य स्वरूपतस्सत्त्वे दृष्टान्तमाह--राहुग्रस्तेति । 'राहु
ग्रस्तदिवाकरेन्दुसदृशः 'राहुणा सैंहिकेयेन ग्रस्तौ गृहीतौ यौ
दिवाकरेन्दू सूर्यचन्द्रौ तत्सदृशः तत्समानस्सन्, सुषुप्तोभूदिति
सम्बन्धः । यथा राहुणा ग्रस्तो दिवाकरश्चन्द्रो वा स्फुटं न
प्रकाशत इत्येतावता दिवाकरस्य चन्द्रमसो वा नासत्त्वम् ; तद्व-
त्करणानामुपसंहारान्माययावृतत्वाच्च सुषुप्तौ स्फुटमात्मा न भासत इत्ये-
तावता नात्मनोसत्त्वमित्यर्थः ॥
 
ननु राहुग्रस्तस्य सूर्यस्य चन्द्रमसो वा स्फुटप्रकाशाभावेपि
चक्षुषाऽविशेषतस्सर्वैर्ग्रहणादस्ति सत्त्वम् । न तद्वदात्मनः केन चित्स-
वमनुभूयत इत्याशङ्कय, सुषुप्तावात्मनोप्यविशेषतो भानं साधयति-
प्रागस्वाप्समित्यादिना । 'यः' सुषुप्तिकालीनात्मा 'प्रबोधसमये '
 
'