This page has not been fully proofread.


राहुग्रस्तदिवाकरेन्दुसदृशो मायासमाच्छादना-
त्सन्मात्रः करणोपसंहरणतो योभूत्सुषुप्तः पुमान् ।
प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिज्ञायते
तस्मै श्रीगुरुमूर्तये नम इदं
श्रीदक्षिणामूर्तिस्तोत्रम्.
 
राहु
तये ॥६॥
 
'यः पुमान्' प्रत्य
ग्रस्तदिवाकरेन्दुसदृशो मायासमाच्छादना-
त्सन्मात्
रूपः परमेश्वरः करणोपसंहरणतो योभूत्सुषुप्तः पुमान् ।
प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिज्ञायते
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥६॥
 
'करणोपसंहरणतः
' विशेष-
,
 
'यः पुमान् ' प्रत्यग्रूपः परमेश्वरः

विज्ञानहेतुचक्षुरादिकरणानामुपसंहारात् 'सन्मात्र: ' पूर्णान्दादिरू-

पेण स्फुटमप्रकाशमानतया केवलं सन्मात्रेणावस्थितस्सन् 'सुषुप्तो-

भूत् ' सुप्तिं प्राप्तोभूत् । करणाभावेपि पूर्णानन्दभानवतो मुक्ता-

त्मनस्सकाशात्सुषुतात्मनो वैषम्यमाह - 'मायासमाच्छादनात् ' इति ।

माययाऽऽत्माविद्यया समाच्छादनादावरणात्, सन्मात्र इति सम्बन्धः ।

स्फुटमप्रकाशमानस्य स्वरूपतस्सच्चेत्त्वे दृष्टान्तमाह राहुग्रस्तेति । 'राहु

ग्रस्तदिवाकरेन्दुसदृशः ' राहुणा सैसैंहिकेयेन ग्रस्तौ गृहीतौ यौ

दिवाकरेन्द्रदू सूर्यचन्द्रौ तत्सदृशः तत्समानस्सन्, सुषुप्तोभूदिति

सम्बन्धः । यथा राहुणा ग्रस्तो दिवाकरश्चन्द्रो वा स्फुटं न

प्रकाशत इत्येतावता दिवाकरस्य चन्द्रमसो वा नासत्त्वम् ; तद्व-

त्करणानामुपसंहारान्माययावृतत्वाच्च सुषुप्तौ स्फुटमात्मा न भासत इत्ये-
तावता नात्मनोसत्त्वमित्यर्थः ॥
 

 
ननु राहुग्रस्तस्य सूर्यस्य चन्द्रमसो वा स्फुटप्रकाशाभावेपि

चक्षुषाऽविशेषतस्सर्वैर्ग्रहणादस्ति सत्त्वम् । न तद्वदात्मनः केन चित्स-

वमनुभूयत इत्याशङ्क, सुषुप्तावात्मनोप्यविशेषतो भानं साधयति-

प्रागस्वाप्समित्यादिना । 'यः' सुषुप्तिकालीनात्मा 'प्रबोधसमये '