This page has not been fully proofread.

श्रीदक्षिणामूर्तिस्तोत्रम्.
 

फणन्ति । इतरे तु प्राणस्य बाह्यवायुवज्जडत्वेन भोक्तृत्वाद्यसम्भवात्

मन एव चेतनं भोक्तृ चात्मेति वदन्ति । योगाचारस्तु – मम

मन इति भिन्नतया प्रतीयमानस्यात्मत्वासम्भवान्, क्षणिकविज्ञानम-

हमिति प्रतीयमानं बुद्धिशब्दापरपर्यायं संसारीति जल्पति । तद्धि-

क्कृत्यान्यः कश्चिद्विद्युदभ्रनिमेषादिवत्क्षणिकस्य तस्यात्मत्वानुपपत्तेः,

सुषुप्तौ तस्याप्यभावादन्यस्याप्यनुपलब्धेश्शून्यमेवात्मेत्युद्भिगिरति । एते

च स्वस्वपक्षदार्ज्ढ्या येतस्ततश्च यां कां चिच्छुछ्रुतिमादायोदाहरन्ति ।

अन्ये चैतदन्यथात्मस्वरूपं फणन्ति । सर्वे ते दैवोपहतचित्ता

भ्रान्तास्सकलश्रुतिस्मृतीतिहासपुराणन्याय विद्वत्प्रत्यक्ष विरुद्धार्थप रिग्रा--
काः । नैतेषां मार्ग आत्मनश्श्रेयोर्थिभिस्स्वप्नेप्यनुसरणीय इत्यभि-

प्रेत्याह – देहं प्राणमपीति ॥
 
१४
 

 
देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं

विदुः स्त्रीबालान्धजडोपमास्त्वहमिति भ्रान्ता भृशं

वादिनः । मायाशक्तिविलास कल्पितमहाव्यामोह-

संहारिणे तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणा-

मूर्तये ॥ ५ ॥
 

 
'देहं' सशिरस्कं पिण्डं, 'प्राणं' पञ्चवृत्तिकं मुखनासिक-

सञ्चारिणं, 'इन्द्रियाणि' चक्षुरादीनि तत्तगोळकवृत्तीनि रूपादि-

ग्राहकाणि, 'चलां' क्षणिकां सन्ततोदयां 'बुद्धि' विज्ञानं,
 

'शून्यं ' तुच्छम्, चकारात्तार्किकाद्यभिमतात्मानम्, 'वादिनः '