This page has been fully proofread once and needs a second look.

केचित्तु-- अचिद्रूपात्मनिष्ठज्ञानेन घटादिविषयो भासत इति
वदन्ति । तन्न ; आत्मनिष्ठज्ञानस्य जडस्य स्वप्रकाशस्य वा घटा-
दिविषयेण संयोगादिसम्बन्धाभावात् स्वरूपसम्बन्धस्य चातिप्रसक्त-
त्वात् । केचित्तु विषयनिष्ठस्फुरणेन घटादिभानमिति कथयन्ति ।
तदपि न ; विषयनिष्ठस्यात्मना सह सम्बन्धाभावेन अहं जाना-
मीति सम्बन्धप्रत्ययानुपपत्तेः । तस्मादस्मदुक्तप्रकारेण स्वप्रकाशसा-
क्षिचैतन्यसम्बन्धादेव घटादिविषयभानमिति । तदेतदाह-- जानामी-
त्यादिना । घटादिकमहं जानामीति घटादिविषयसम्बद्धतया
'भान्तं' प्रकाशमानं 'तमेव' साक्षित्वेनावस्थितं परमेश्वरमेव
'अनु' पश्चात्, 'एतत्' विविधशब्दप्रत्ययगम्यं 'समस्तं' सर्वं
'जगत्' 'भाति' प्रकाशते । अनुभानमपि न तस्य स्वतः, किन्तु
अग्निं दहन्तमन्वयो दहतीतिवदध्यासादेवेत्यर्थः । तथा च श्रुतिः-- 'तमेव
भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति'[^1] इति । तस्मै नमः ॥ ४ ॥
 
अत्र केचित् सर्वमेतदभित्तिचित्रं, देहव्यतिरिक्तात्मन एवाभा-
वात्, देहस्यैव गच्छामि तिष्ठामि स्थूलोहं कृशोहमित्यात्मत्वानु-
भवादिति वदन्ति । अन्ये केचित् तान् हस्तेन वारयन्त आहुः-
जीवात्मनिर्गमे शरीरमरणस्य दर्शनात्, वच्मि पश्यामि श्रुणोमी-
त्यादिबुद्धिदर्शनादिन्द्रियाण्येवात्मेति । ततोप्यन्ये केचिदीषच्छुद्धबु-
द्धयश्चक्षुरादीन्द्रियनाशेपि प्राणसत्त्वे जीवनदर्शनात्, अन्यथाऽ
दर्शनात्, बुभुक्षितोहं पिपासितोहमित्यादिप्रतीतेश्च प्राण एवात्मेति
 
[^1] मुण्ड. २-२-१०.