This page has not been fully proofread.

श्रीदक्षिणामूर्तिस्तोत्रम्.
 
नानाच्छिद्रघटोदरस्थितमहादीपप्रभाभास्वरं
ज्ञानं यस्य तु चक्षुरादिकरणद्वारा बहिस्स्पन्दते ।
जानामीति तमेव भान्तमनुभात्येतत्समस्तं जगत्
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥४॥
 
'नानाच्छिद्रघटोदरस्थितमहादीपप्रभाभास्वरं ' नानाच्छिद्रस्य अनेक-
रन्ध्रयुक्तस्य घटस्य कुम्भस्य उदरे अन्तः स्थितो वर्तमानो
यो महादीपस्तस्य प्रभेव भास्वरं भासनशीलं दीपवत्तमोविरोधि-
लक्षण प्रकाशस्वभावं, 'यस्य ' परमेश्वरस्य घटवदनेकच्छिद्रयुक्ते
देहे अन्तःकरणे प्रतिबिम्बितस्य साक्षित्वेनावस्थितस्य स्वरूपभूतं
'ज्ञानं' चैतन्यं 'चक्षुरादिकरणद्वारा ' चक्षुश्श्रोत्रादीनि यानि क-
रणानि विषयोपलब्धिसाधनानि तद्वारा तच्छिद्रेण 'बहिः' विष-
यदेशे 'स्पन्दते' गच्छति । इन्द्रियाणां विषयसम्प्रयोगे तद्वारा
चैतन्योपाध्यन्तःकरणे गच्छति सति तत्प्रतिबिम्बितं चैत-
न्यमपि गच्छति, गत्वा तं विषयं भासयतीत्यर्थः । अयमभिप्रा-
यः— चैतन्यं तु स्वतोऽज्ञानाविरोध्यप्यन्तःकरणे प्रतिबिम्बितं
 
सत्तद्विरोधि । अत एवान्तःकरणधर्मा रागादयस्स्वसत्तायां सर्वदा
भासन्ते । घटपटादिविषयश्च बिम्बचैतन्ये ब्रह्मण्येवाध्यस्तस्तिष्ठति ।
अन्तःकरणेन चक्षुरादिद्वारा विषयदेशं गच्छता घटाद्यधिष्ठानबिम्ब-
चैतन्यमुपाधीयते । तथा चैकोपाधिसम्बन्धादन्तःकरणे प्रतिबिम्ब्या-
वस्थितेन साक्षिचैतन्येन घटाद्याधष्ठानचैतन्यमेकीभवति । ततस्साक्षि-
चैतन्येन तद्ज्ञाने निवृत्ते घटादिविषयो भासते न सर्वदा । अतोऽ-
ज्ञानावरणभङ्गार्थं चक्षुराद्यपेक्षेति न कोपि दोषः ।
 
१२