This page has been fully proofread once and needs a second look.


याया अनुपपत्तयः परैरुद्भावितास्तास्सर्वास्सर्वैराचार्यैस्सर्वत्र परा-
क्रम्य निरस्ता इति नास्माभिस्तत्र यत्यते, संग्रहव्याख्याने प्र-
वृत्तत्वात् । नन्वेवं वाक्यजन्यज्ञानान्निवृत्तोपि संसार: सुषुप्तिप्रळय-
योरिव पुनरपि कदाचिदुद्भवेदित्याशङ्कयाह-- 'यत्साक्षात्' इत्यादिना ।
यत्साक्षात्करणात्' यस्य स्वप्रकाशनिष्प्रपञ्चसच्चिदानन्दस्वरूपस्य
ब्रह्मणस्साक्षात्करणात् अपरोक्षतया सोहमस्मीतिज्ञानात् 'भवाम्भो-
निधौ' संसारसमुद्रे 'पुनः' भूयः 'आवृत्तिः' आवर्तनमागमनं 'न भवेत्'
न स्यात्, 'तरति शोकमात्मवित्'[^1] 'ब्रह्म वेद ब्रह्मैव भवति'[^2]
'न स पुनरावर्तते'[^3] इत्यादिश्रुतिशतेभ्यः । सुषुप्तिप्रळययोर्मूलाज्ञा-
नस्य विद्यमानत्वात् पुनरुत्थानम्, तस्य वाक्यजन्यज्ञानेनात्र नष्ट-
त्वान्न मुक्तस्य पुनरुत्थानमिति भावः । तस्मै नम इति ॥ ३ ॥
 
न च जगतः कथमात्मसत्ताभानाभ्यां तद्वत्त्वम् ? आत्मवत्स्वत
एव सत्ताप्रकाशौ जगतो भवेतामित्याशङ्क्यम्, आत्मवज्जगतस्स्वत-
स्सत्त्वे तद्वदेवोत्पत्तिविनाशानुपपत्तेः, तद्वदेव करणाद्यनपेक्षया सर्व-
दा भानप्रसङ्गाच्च, न स्वतस्सत्ताप्रकाशौ भवतो जगतः ; किन्तु
आत्मसत्ताप्रकाशाभ्यामेव जगतोपि सत्ताप्रकाशौ । नन्वेवं तर्हि सर्वस्य
जगत आत्मन्यध्यस्तत्वे भवन्मते कथं करणाद्यपेक्षा ? प्रकाशरू-
पात्मसम्बन्धादेव सर्वं सर्वदा किमिति न भायात्? सर्वगतचैतन्य -
स्याविरोधेनाज्ञानावृतत्वे वा कथं कादाचित्कं जगतो भानम् ?
अज्ञानस्य चैतन्यातिरिक्तनिवर्तकाभावात्तस्य चाविरोधित्वादित्याश-
ङ़्क्याह-- नानाच्छिद्रेति ॥
 
[^1] छां. ७-१-३.
[^2] मुण्ड. ३-२-१.
[^3] कालाग्नि. २.