This page has not been fully proofread.

सव्याख्यम्
 
6
 

याया अनुपपत्तयः परैरुद्भावितास्तास्सर्वास्सर्वैराचार्येयैस्सर्वत्र परा-

क्रम्य निरस्ता इति नास्माभिस्तत्र यत्यते, संग्रहव्याख्याने प्र-

वृत्तत्वात् । नन्वेवं वाक्यजन्यज्ञानान्निवृत्तोपि संसार: सुषुप्तिप्रळय-

योरिव पुनरपि कदाचिदुद्भवेदित्याशङ्कयाह –'यत्साक्षात्' इत्यादिना ।

यत्साक्षात्करणात् ' यस्य स्वप्रकाशनिष्प्रपञ्चसच्चिदानन्दस्वरूपस्य

ब्रह्मणस्साक्षात्करणात् अपरोक्षतया सोहमस्मीतिज्ञानात् 'भवाम्भो-

निधौ' संसारसमुद्रे 'पुनः ' भूयः 'आवृत्तिः' आवर्तनमागमनं 'न भवेत्'

न स्यात्, 'तरति शोकमात्मवित् "'[^1] 'ब्रह्म वेद ब्रह्मैव भवति 1'[^2
]
'न स पुनरावर्तते "'[^3] इत्यादिश्रुतिशतेभ्यः । सुषुप्तिप्रळययोर्मूलाज्ञा-

नस्य विद्यमानत्वात् पुनरुत्थानम्, तस्य वाक्यजन्यज्ञानेनात्र नष्ट-

त्वान्न मुक्तस्य पुनरुत्थानमिति भावः । तस्मै नम इति ॥ ३ ॥
 
११
 

 
च जगतः कथमात्मसत्ताभानाभ्यां तद्वत्त्वम् ? आत्मवत्स्वत

एव सत्ताप्रकाशौ जगतो भवेतामित्याशङ्कचक्यम्, आत्मवज्जगतस्स्वत-

स्सत्त्वे तद्वदेवोत्पत्तिविनाशानुपपत्तेः, तद्वदेव करणाद्यनपेक्षया सर्व-

दा भानप्रसङ्गाच्च, न स्वतस्सत्ताप्रकाशौ भवतो जगतः ; किन्तु

आत्मसत्ताप्रकाशाभ्यामेव जगतोपि सत्ताप्रकाशौ । नन्वेवं तर्हि सर्वस्य

जगत आत्मन्यध्यस्तत्वे भवन्मते कथं करणाद्यपेक्षा ? प्रकाशरू-

पात्मसम्बन्धादेव सर्वं सर्वदा किमिति न भायात्? सर्वगतचैतन्य -

स्याविरोधेनाज्ञानावृतत्वे वा कथं कादाचित्कं जगतो भानम् ?

अज्ञानस्य चैतन्यातिरिक्तनिवर्तकाभावात्तस्य चाविरोधित्वादित्याश-
ङ्

ङ़्क्
याह – नानाच्छिद्रेति ॥
 

 
[^
1] छां,. ७-१-३.
 

[^
2] मुण्ड,. ३-२-१.
 

[^3]
कालामिग्नि. २.