This page has not been fully proofread.

श्रीदक्षिणामूर्तिस्तोत्रम्.
 
श्रुतिश्चानभिव्यक्तसत्कारणपरा, कथमसतस्सज्जायेत " इति श्रुत्यैवा-
सद्वादस्य प्रतिषेधादिति । अथवा – ननु घटस्सन् पटस्सन् इत्येवं सत्त्वेन
प्रतीयमानस्य जगतः कथमसत्कल्पत्वमध्यस्तत्वेनोच्यते ? इत्याश-
ट्र्याह – यस्यैवेत्यादिना । सत्प्रकाशरूपाधिष्ठानात्मसत्तैवारोपितजग-
निष्ठतया प्रतीयते, न तु तस्य स्वतस्सत्त्वम् ; ' अथात आदेशो
नेति नेति' 2 'नेह नानास्ति किं च न '3 इत्यादिश्रुत्या प्रपञ्चस्य
प्रतिषेधात्, भ्रान्त्यापि तत्प्रतीत्युपपत्तेश्च । तस्यासद्विलक्षणत्वाङ्गीकारान्न
शशविषाणसमत्वम् । ततोपरोक्षप्रतीतिरप्युपपद्यत इति तात्पर्यार्थः । अ-
क्षरार्थस्तु पूर्ववत् । येयमसत्ये प्रपञ्चे सत्यत्वबुद्धिरनात्मनि देहादौ
चात्मत्वबुद्धिरियमेव सकलसंसारनिदानम् । अस्याश्च निवृत्तिर्गुरूपदि-
ष्टतत्त्वमस्यादिवाक्यजन्यापरोक्षज्ञानेन मूलाज्ञाननिवृत्त्यैवेत्यभिप्रायेणाह
- साक्षादित्यादिना । 'यो' गुरुरूपः परमेश्वरः 'आश्रितान् ' विधिव-
दुपसन्नान् 'तत्त्वमसीति वेदवचसा' यज्जगत्कारणं सदद्वितीयं ब्रह्म त
वमसि न ततो भिन्नोसीति वेदवचसा वेदवाक्येन 'साक्षात् '
अपरोक्षत्वेन तत्त्वं बोधयति ज्ञापयतीत्यर्थः । ननु कथं किञ्चिजत्व-
सर्वज्ञत्वादिविरुद्ध धर्मकयोर्जी
वेश्वरयोरभेदमयोग्यं वेदो बोधयति ?
इति चेदुच्यते — सोयं देवदत्त इत्यादिवाक्यं तदेतद्देशादिविरुद्धांशं
त्यक्त्वाऽविरुद्धांशं पिण्डमात्रमादाय भागत्यागलक्षणया यथाऽभेदं बोध-
यति, तथा तत्त्वमस्यादिवाक्यमपि जीवेश्वरयोर्मायान्तःकरणोपाधि
तन्निमित्तर्किञ्चिज॒त्वसर्वज्ञत्वादिविरुद्धांशं त्यक्त्वा उभयत्रानुगता-
विरुद्धचिन्मात्रादानेनाभेदं बोधयति । अत्र महावाक्यार्थविषये
1छा, उ. ६.२ २. थ्बृ. उ. ४-३-६. बृ. उ. ६-४-१९.
 
--
 
K