This page has not been fully proofread.

सव्याख्यानम्.
 

नन्वसदेव जगतः कारणं, पिण्डादिनाशादेव घटाद्युत्पत्तिदर्शनात्,

जागराद्यकालीनकार्यस्य चासत्पूर्वकत्वदर्शनात् तदृष्टान्तेन जगतोपि

तथात्वानुमानात्, 'असद्वा इदमग्र आसीत् "त'[^1] इति श्रुतेश्चेत्यसद्वाद-

माशङ्कयाह – यस्यैवेति ॥
 
-
 

 
यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थगं भासते

साक्षात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रिता-
न् ।
यत्साक्षात्करणाद्भवेन्न पुनरावृत्तिर्भवाम्भोनिधौ

तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥३॥
 

 
'यस्य' प्रत्यगभिन्नस्य परमेश्वरस्य स्वरूपभूतं ' सदात्मकं' सद्रूपं
'

'
स्फुरणमेव ' चैतन्यमेव 'असत्कल्पार्थगं' असत्कल्पा असत्तुल्याः

स्वतस्सत्तारहिता अनिर्वचनीया ये अर्था वियदाद्याः तान् गच्छतीत्यस-

त्कल्पार्थगम्, अनिर्वचनीयवियदादिपदार्थनिष्ठमिति यावत्, 'भासते '

प्रकाशते । अयं भावः – जगतोसत्कारणत्वे घटोसन् पटोसन् इत्य-

सत एव सर्वत्रानुवृत्तिस्स्यात्, न तु सतः । किञ्च–तस्यासतोस्वप्रका-

शत्वेन तत्र वर्तमानजगत आन्ध्यमपि स्यात् । जगच्च सदनुविद्धं

प्रकाशते । तथा च स्वतस्सत्त्वप्रकाशरहितं जगत् तदधिष्ठानभूतात्मसत्ता-

प्रकाशाभ्यामेव सत्ताप्रकाशवद्भवतीति तत्राध्यस्तत्वेन तत्कारणकमेव

जगत् । नापि पिण्डादिनाशस्य घटादिकारणत्वम्, अनुगतमृदादेरेव

कारणत्वात् । जागराद्यकालीनस्य कार्यस्य चासत्पूर्वकत्वं नास्मत्स-

म्मतम् ; सुषुप्तिकालीनसद्रूपात्मन: कारणत्वाङ्गीकारात्, सुषुप्तावात्म-

सत्त्वस्य च साधयिष्यमाणत्वात् । 'असद्वा इदमग्र आसीत् '[^2] इति
 
9

 
[^
1
 
1
] तै. उ. २-७.
 

 
B