This page has been fully proofread once and needs a second look.


पूर्वं निर्विकल्पं बीजमात्रमासीत्तद्वत् । 'पुनः' पश्चात् सृष्टिसमये,
'मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतं' मायया ईश्वराधिष्ठि-
तया कल्पित यौ देशकालौ तयोश्च कलना सम्बन्धस्तद्वैचित्र्येण
चित्रीकृतं नानाविधभेदभिन्नतया विभक्तम् ; 'तं नामरूपाभ्यामेव
व्याक्रियत'[^1] इति श्रुतेः । ननु कथमीश्वरस्याद्वितीयस्य बाह्यसाधनरहि-
तस्य जगदुत्पादकत्वम् ? लोके कुलालादेर्बाह्यसाधनवत एव कार्यकर-
त्वदर्शनादित्याशड़्कय, ईश्वरस्यानाद्यनिर्वचनीयमायाशक्त्युपहितस्य स्वे-
च्छामात्रेणैवैन्द्रजालिकवद्देवर्षिपित्रादियोगिवच्चोपपद्यते जगदुत्पादकत्व -
मित्यभिप्रेत्याह–मायावीवेत्यादिना । 'यः' परमेश्वरो 'मायावीव' लोकप्र
सिद्धैन्द्रजालिकमायाविवत् 'महायोगीव' विश्वामित्रादिमहायोगिवच्च
'स्वेच्छया' स्वसङ्कल्पमात्रेण, 'विजृम्भयति' इदं जगदुत्पादयति,
'इन्द्रो मायाभिः पुरुरूप ईयते'[^2] 'तदात्मान ॅॅ्ॅॅ्ॅॅ्ॅॅ्ॅॅ्ॅॅ्ॅॅ्ॅ स्वयमकुरुत'[^3] 'सच्च
त्यच्चाभवत्'[^4] इति श्रुतेः । नापि मायया तस्य सद्वितीयत्वम्, तस्या अपि
कल्पितत्वात् । नापि तस्य कारणत्वेन विकारित्वम्, जगत्कारणत्वस्या-
नाद्यनिर्वचनीयमायाघटिततया कल्पितत्वेनोपलक्षणत्वेनापि* तत्र विका-
रानापादकत्वात्+। ततश्च तत्र कस्यापि दोषस्याभावात् ब्रह्मैव प्रत्यगभिन्नं
सकलजगदुत्पत्तिस्थितिलयहेतुरिति भावः । तस्मै.......नमः ॥ २ ॥
------

*ग — उपलक्षणस्य.
+'यावत्कार्यमवस्थायिभेदहेतोरुपाधिता। कादाचित्कतया भेदधीहेतुरुपलक्षणम् ॥' इति
क. ग. कोशयोरधिकः पाठः.
[^1] बृ. उ. ३-४-७.
[^2] बृ. उ. ४-५-१९.
[^3] तै. उ. २-७.
[^4] तै. उ. २-६.