This page has not been fully proofread.

श्रीदक्षिणामूर्तिस्तोत्रम्.
 

पूर्वं निर्विकल्पं बीजमात्रमासीत्तद्वत् । 'पुनः' पश्चात् सृष्टिसमये,

'मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतं' मायया ईश्वराधिष्ठि-

तया कल्पित योयौ देशकालौ तयोश्च कलना सम्बन्धस्तद्वैचित्र्ये

चित्रीकृतं नानाविधभेदभिन्नतया विभक्तम् ; 'तं नामरूपाभ्यामेव

व्याक्रियत "'[^1] इति श्रुतेः । ननु कथमीश्वरस्याद्वितीयस्य बाह्यसाधनरहि-

तस्य जगदुत्पादकत्वम् ? लोके कुलालादेर्बाह्यसाधनवत एव कार्यकर-

त्वदर्शनादित्याशइचड़्कय, ईश्वरस्यानाद्यनिर्वचनीयमायाशक्त्युपहितस्य स्वे-

च्छामात्रेणैवैन्द्रजालिकवद्देवर्षिपित्रादियोगिवच्चोपपद्यते जगदुत्पादकत्व -

मित्यभिप्रेत्याह–मायावीवेत्यादिना । 'यः' परमेश्वरो 'मायावीव' लोकप्र

सिद्धैन्द्रजालिकमायाविवत् 'महायोगीव' विश्वामित्रादिमहायोगिवच्च

'स्वेच्छया' स्वसङ्कल्पमात्रेण, 'विजृम्भयति' इदं जगदुत्पादयति,

'इन्द्रो मायाभिः पुरुरूप ईयते '[^2 ] 'तदात्मान ॅॅ्ॅॅ्ॅॅ्ॅॅ्ॅॅ्ॅॅ्ॅॅ्ॅ स्वयमकुरुत '[^3] 'सच्च

त्यच्चाभवत् "'[^4] इति श्रुतेः । नापि मायया तस्य सद्वितीयत्वम्, तस्या अपि

कल्पितत्वात् । नापि तस्य कारणत्वेन विकारित्वम्, जगत्कारणत्वस्या-

नाद्यनिर्वचनीयमायाघटिततया कल्पितत्वेनोपलक्षणत्वेनापि * तत्र विका-

रानापादकत्वात्+। ततश्च तत्र कस्यापि दोषस्याभावात् ब्रह्मैव प्रत्यगभिन्नं

सकलजगदुत्पत्तिस्थितिलयहेतुरिति भावः । तस्मै.......नमः ॥ २ ॥
.........
 
'
 
२॥
 
V
 

------
*ग — उपलक्षणस्य.
 

+' यावत्कार्यमवस्थायिभेदहेतोरुपाधिता। कादाचित्कतया भेदधीहेतुरुपलक्षणम् ॥' इति
 

क. ग. कोशयोरधिकः पाठः.
 

[^1]
बृ. उ. ३-४-७,.
[^2]
बृ. उ. ४-५-१९.
 

[^3] तै. उ. २-७.
[^
4] तै. उ. २-६.
 
३तै, उ. २-७.