This page has not been fully proofread.

श्रीदक्षिणामूर्तिस्तोत्रम्.
 
पूर्व निर्विकल्पं बीजमात्रमासीत्तद्वत् । 'पुनः' पश्चात् सृष्टिसमये,
'मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतं' मायया ईश्वराधिष्ठि-
तया कल्पित यो देशकालौ तयोश्च कलना सम्बन्धस्तद्वैचित्रण
चित्रीकृतं नानाविधभेदभिन्नतया विभक्तम् ; 'तं नामरूपाभ्यामेव
व्याक्रियत " इति श्रुतेः । ननु कथमीश्वरस्याद्वितीयस्य बाह्यसाधनरहि-
तस्य जगदुत्पादकत्वम् ? लोके कुलालादेर्बाह्यसाधनवत एव कार्यकर-
त्वदर्शनादित्याशइच, ईश्वरस्यानाद्यनिर्वचनीयमायाशक्तयुपहितस्य स्वे-
च्छामात्रेणैवैन्द्रजालिकवद्देवर्षिपित्रादियोगिवच्चोपपद्यते जगदुत्पादकत्व -
मित्यभिप्रेत्याह–मायावीवेत्यादिना । 'यः' परमेश्वरो 'मायावीव' लोकप्र
सिद्धैन्द्रजालिकमायाविवत् 'महायोगीव' विश्वामित्रादिमहायोगिवच्च
'स्वेच्छया' स्वसङ्कल्पमात्रेण, 'विजृम्भयति' इदं जगदुत्पादयति,
'इन्द्रो मायाभिः पुरुरूप ईयते 2 तदात्मान५ स्वयमकुरुत 3 'सच्च
त्यच्चाभवत् " इति श्रुतेः । नापि मायया तस्य सद्वितीयत्वम्, तस्या अपि
कल्पितत्वात् । नापि तस्य कारणत्वेन विकारित्वम्, जगत्कारणत्वस्या-
नाद्यनिर्वचनीयमायाघटिततया कल्पितत्वेनोपलक्षणत्वेनापि * तत्र विका-
रानापादकत्वात् । । ततश्च तत्र कस्यापि दोषस्याभावात् ब्रह्मैव प्रत्यगभिन्नं
सकलजगदुत्पत्तिस्थितिलयहेतुरिति भावः । तस्मै...नमः ॥ २ ॥
.........
 
'
 
२॥
 
V
 
*ग — उपलक्षणस्य.
 
+' यावत्कार्यमवस्थायिभेदहेतोरुपाधिता। कादाचित्कतया भेदधीहेतुरुपलक्षणम् ॥' इति
 
क. ग. कोशयोरधिकः पाठः.
 
बृ. उ. ३-४-७, बृ. उ. ४-५-१९.
 
4 तै. उ. २-६.
 
३तै, उ. २-७.