This page has been fully proofread once and needs a second look.


सहस्त्रशः परमात्मन एव चेतनाज्जगदुत्पत्तिश्रवणात्, विलक्षणयो-
रपि कार्यकारणभावस्य गोमयवृश्चिकपुरुषकेशलोमादौ दर्शनात्, आर-
म्भपरिणामव्यतिरेकेण तत्त्वतोन्यथाभानलक्षणविवर्तरूपप्रकारस्यापि
कार्योत्पादे स्वप्नप्रपञ्चशुक्तिरजतादौ दर्शनात्, * अत्र विवर्तवादस्य
विवक्षितत्वात् ,† 'सर्वं तं परादाद्योन्यत्रात्मनस्सर्वं वेद'[^1] इत्यादिश्रुतौ
आत्मनोन्यत्र जगद्वेदनस्य निन्दितत्वात्, घटोस्ति पटोस्ति घटस्स्फुरति
पटस्स्फुरतीति सत्तास्फुरणानुविद्धतयाऽनुभूयमानस्य जगतो मृदनुवि-
द्धघटस्य मृत्कार्यत्ववत् सत्तास्फुरणात्मकार्यत्वस्यैव युक्तत्वाच्चात्मैव
जगदुत्पत्त्यादिकारणमित्यभिप्रेत्याह--बीजस्यान्तरिवेति॥
 
बीजस्यान्तरिवाङ्कुरो जगदिदं प्राड़़्निर्विकल्पं पुन-
र्मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम् ।
मायावीव विजृम्भयत्यपि महायोगीव यस्स्वेच्छया
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ २
 
'इदम्' अनुभूयमानं सर्वं 'जगत्' 'प्राक्' उत्पत्तेः पूर्वं
'निर्विकल्पं' भोक्तृभोग्यादिविकल्परहितमात्ममात्रमेवासीत् ; 'आत्मा वा
इदमेक एवाग्र आसीत्'[^2] 'सदेव सोम्येदमग्र आसीत्'[^3] इत्यादिश्रुतेः ।
तत्र दृष्टान्तमाह-- बीजस्येति । 'बीजस्यान्त: ' मध्ये 'अङ्कुर इव' ।
उपलक्षणमेतत्-- पल्लवपत्रपुष्पफलशाखाविटपात्मकवृक्षो यथा उत्पत्तेः
 
* 'उपादानसमसत्ताककार्यापत्तिः परिणामः, उपादानविषमसत्ताककार्यापत्तिर्विवर्त
इति' इति ख. ग. कोशयोरधिकः पाठः.
†अयं हेतुः क. कोशे नास्ति.
[^1] बृ. उ. ४-४-६.
[^2] ऐ, उ. १-१-१.
[^3] छा. उ. ६-२.