This page has not been fully proofread.

सव्याख्यम्.
 

 
विलक्षणयो-
सहस्त्रशः परमात्मन एव चेतनाज्जगदुत्पत्तिश्रवणात्,
रपि कार्यकारणभावस्य गोमयवृश्चिकपुरुषकेशलोमादौ दर्शनात्, आर-
म्भपरिणामव्यतिरेकेण
 
तत्त्वतोन्यथाभानलक्षणविवर्तरूपप्रकारस्यापि
कार्योत्पादे स्वप्नप्रपञ्चशुक्तिरजतादौ दर्शनात्, * अत्र विवर्तवादस्य
विवक्षितत्वात् , ' 'सर्वं तं परादाद्योन्यत्रात्मनस्सर्वं वेद" इत्यादिश्रुतौ
आत्मनोन्यत्र जगद्वेदनस्य निन्दितत्वात्, घटोस्ति पटोस्ति घटस्स्फुरति
पटस्स्फुरतीति सत्तास्फुरणानुविद्धतयाऽनुभूयमानस्य जगतो मृदनुवि-
द्धघटस्य मृत्कार्यत्ववत् सत्तास्फुरणात्मकार्यत्वस्यैव युक्तत्वाच्चात्मैव
 
जगदुत्पत्त्यादिकारणमित्यभिप्रेत्याह—बीजस्यान्तरिवेति
 

 
बीजस्यान्तरिवाङ्गरो जगदिदं निर्विकल्पं पुन-
र्मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम् ।
मायावीव विजृम्भयत्यपि महायोगीव यस्स्वेच्छया
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ २
 
6
 
' इदम्' अनुभूयमानं सर्वं 'जगत् ' 'प्राक्' उत्पत्तेः पूर्वं
'निर्विकल्पं' भोक्तृभोग्यादिविकल्परहितमात्ममात्रमेवासीत् ; 'आत्मा वा
इदमेक एवाग्र आसीत् 2 ' सदेव सोम्येदमग्र आसीत्" इत्यादिश्रुतेः ।
तत्र दृष्टान्तमाह — बीजस्येति । 'बीजस्यान्त: ' मध्ये 'अङ्कुर इव' ।
उपलक्षणमेतत्-पछवपत्रपुष्पफलशाखाविटपात्मकवृक्षो यथा उत्पत्तेः
 
* उपादानसमसत्ताक कार्यापत्तिः परिणामः, उपादानविषमसत्ताककार्यापत्तिर्विवर्त
इति ' इति ख. ग. कोशयोरधिकः पाठः. †अयं हेतुः क. कोशे नास्ति.
 
बृ. उ. ४-४-६.
 
2ऐ, उ. १-१-१,
 
छा. उ. ६-२.