This page has been fully proofread once and needs a second look.

श्रीदक्षिणामूर्तिस्तोत्रम्.

नन्वात्मनि प्रपञ्चस्यावस्थानं नोपपद्यते, तदकारणत्वात् । तथाहि-
किमात्मा जगदारम्भक: उत तदाकारपरिणामी ? नाद्यः ; एकस्य
विभोश्चिद्रूपस्य जडप्रपञ्चारम्भकत्वासम्भवात् । नापि द्वितीयः ; निर-
वयवनिर्विकारचिद्रूपस्य परिणामासम्भवात् । ततो नित्याश्चतुर्विधाः
परमाणवो जगदारम्भका इति तेष्वेव तस्य स्थितिः । यद्वा– प्रधा-
नमेव जडं त्रिगुणात्मकं जगदाकारपरिणामि, तत्रैवेदं जगत्परमा-
र्थतोस्ति न तु चिदात्मनि । इति नैयायिकानां साङ्ख्यानां वा मत-
माशङ्कय-- न तावत्परमाण्वारम्भवाद उपपद्यते, निरवयवानां तेषां
सर्वात्मना संयोगे प्रथिमानुपपत्तेः, भिन्नयोर्गवाश्ववत्कार्यकारणभावायो-
गात्, पूर्वमसतश्च कार्यस्य शशविषाणवदुत्पत्त्यनुपपत्तेः, अत्यन्त-
भिन्नकार्यारम्भे कार्ये गुरुत्वादितद्वैगुण्यापत्तेः, परमाणुसद्भावे प्रमा-
णाभावात्, कार्यद्रव्यस्य स्वन्यूनपरिमाणारब्धत्वनियमस्य स्थूल-
तूलपिण्डारब्धतन्त्वादावदर्शनाच्च । नापि प्रधानपरिणामवादः; तस्य
चेतनानधिष्ठितस्य कार्योत्पादे स्वतोसामर्थ्यात्, लोके रथादेश्चेतना-
धिष्ठितस्यैव प्रवृत्तिदर्शनात्, तत्सद्भावे प्रमाणाभावात्, 'अजाम्' [^1]
इत्यादिश्रुतेश्च तेजोबन्नादिप्रकृत्यव्याकृतपरत्वाच्च । किंतु श्रुतौ 'सत्यं
ज्ञानमनन्तं ब्रह्म' [^2] 'तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः' [^2]
'सदेव सोम्येदमग्र आसीत्' [^3] 'तदैक्षत बहु स्यां प्रजायेयेति' [^3] 'यतो
वा इमानि भूतानि जायन्ते' [^4] 'यस्सर्वज्ञस्सर्ववित् यस्य
ज्ञानमयं तपः । तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते' [^5] इत्यादिषु
 
[^1] श्वे. उ. ४-५.
[^2] तै. उ. २-१.
[^3] छा. उ. ६-२.
[^4] तै. उ. ३-१.
[^5] मु. उ. १-१-९.