This page has been fully proofread once and needs a second look.

परमाद्वैतविज्ञानं कृपया वै ददाति यः ।
सोयं गुरुर्गुरुस्साक्षाच्छिव एव न संशयः ॥

इत्यादिवचनशतेभ्यो ज्ञानोपदेष्टा गुरुस्साक्षात्परमेश्वर एव । अथवा --
श्रीमती सच्चिदानन्दात्मिका गुर्वी अतिमहत्तरा मूर्तिस्वरूपं यस्य
स तथा, तस्मै श्रीगुरुमूर्तये । श्रिया अनाद्यचिन्त्यमायाशक्तचा दक्षि-
णः सृष्टिस्थित्यन्तविरचनानिपुणश्चासौ परमार्थतोऽमूर्तिश्च आकारविशेष-
रहितः, 'अस्थूलमनणु'[^1] इत्यादि श्रुतेः । स दक्षिणामूर्तिः तस्मा
'इदं' 'नमः' प्रह्वीभावोस्त्विति शेषः । प्रह्वीभावश्च स्वात्मनः पर-
मेश्वरे एकत्वेन समर्पणम् । अत्र च पूर्वार्धेन त्वंपदार्थ उक्तः, उत्त-
रार्धे श्रीगुरुमूर्तये श्रीदक्षिणामूर्तय इति पदद्वयेन मूर्तिद्वययुक्तस्तत्पदार्थ
उक्तः । स्वात्मानमद्वयमिति पदद्वयसामानाधिकरण्येन यत्तच्छब्दाभ्यां
च प्रत्यग्मैक्यलक्षणो वाक्यार्थ उक्तः । सकलवेदान्तप्रसिद्धोयमेवार्थः
उत्तरश्लोकैः प्रपञ्चयते ॥
 
दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं विश्वं यथा निद्रया तथा-
त्मनि मायया बहिरुद्भूतमिव पश्यन् यः प्रबोधसमयेऽद्वयं स्वात्मा-
नमेव साक्षात्कुरुते तस्मा इदं नम इत्यन्वयः ॥
 
एवमेवास्यार्थो वार्तिककारेण सड़्गृह्योक्तः--

ईश्वरो गुरुरात्मेति मूर्तिभेदाद्विभागिने ।
व्योमवद्वयाप्तदेहाय दक्षिणामूर्तये नमः ॥ इति ॥ १ ॥
 
[^1] बृ. उ. ५-८-८