This page has been fully proofread once and needs a second look.


मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् ।
मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्म्यहम् [^1]॥ इति ।
यथा स्वप्नप्रपञ्चोयं मयि मायाविजृम्भितः ।

एवं जाग्रत्प्रपञ्चश्च मयि मायाविजृम्भितः ॥ इति पुराणवचनं च ।
ततः प्रतीच्येव जाग्रत्प्रपञ्चोध्यस्तोनुभूयते भ्रान्त्या बहिरिवेति भावः ।
 
ननु स्वात्मनि प्रपञ्चोध्यस्तश्चेद्बाध्येत। न च कदाचिदपि बाधोनुभूयते ।
अतो नात्मन्यध्यस्तः, किन्तु बहि: परमार्थत एव स विद्यत इत्याशङ्कय
यथा स्वप्नप्रपञ्चोध्यस्तोपि तदा सत्य इव भाति, प्रबोधसमये बाध्यते,
तथैवायमपि जाग्रत्प्रपञ्चः तत्त्वज्ञानात्पूर्वं सत्यत्वेन भातोप्याचार्येण
परमदयाळुना साक्षात्परमेश्वरावताररूपेणोपदिष्टतत्त्वमस्यादिमहावाक्य-
जन्यप्रत्यग्ब्रह्मैक्यसाक्षात्कारसमये समूलं बाधितस्सन् प्रत्यगभिन्नाद्वि-
तीयब्रह्ममात्रतया परिशिष्यत इत्यभिप्रेत्याह-- यस्साक्षादित्यादिना ।
'यः' अध्यस्तप्रपञ्चाधिष्ठानभूतः प्रत्यगात्मा, 'प्रबोधसमये' गुरूपदिष्ट-
महावाक्यात् ज्ञानोत्पत्तिकाले, 'अद्वयं' सर्वप्रपञ्चस्य समूलस्य बाधि-
तत्वेन वियदादिद्वयरहितं, 'स्वात्मानमेव ' वियदाद्यधिष्ठानभूतब्रह्माभिन्नं
सच्चिदानन्दात्मकं प्रत्यञ्चमेव, 'साक्षात्कुरुते' सच्चिदानन्दात्मकं ब्रह्माह-
मस्मीत्यप्रतिबन्धेनाव्यवधानमनुभवति ; 'यत्र त्वस्य सर्वमात्मैवाभूत्तत्के-
न कं पश्येत्' [^2] इत्यादिश्रुतेः । 'तस्मै ' उक्तरूपाय, 'श्रीगुरुमूर्तये, '
श्रीगुरुः साक्षात्कृतब्रह्मतत्त्वतया त्रिविधपरिच्छेदशून्यो ज्ञानोपदेष्टा
पुरुषः, तन्मूर्तये तद्रूपेणावस्थिताय, 'श्रीदक्षिणामूर्तये' दक्षिणा दक्षिण-
दिगभिमुखा मूर्तिर्विग्रहो यस्य तस्मै ।
 
[^1] कैवल्योपनिषदि.
[^2] बृ. उ. ६-५-१५०.