This page has not been fully proofread.

श्रीदक्षिणामूर्तिस्तोत्रम्.
 

मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् ।

मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्म्यहम्' । [^1]॥ इति ।

यथा स्वप्नप्रपञ्चोयं मयि मायाविजृम्भितः ।
 

 
एवं जाग्रत्प्रपञ्चश्च मयि मायाविजृम्भितः ॥ इति पुराणवचनं च ।

ततः प्रतीच्येव जाग्रत्प्रपञ्चोध्यस्तोनुभूयते भ्रान्त्या बहिरिवेति भावः ।
 
ze
 

 
ननु स्वात्मनि प्रपञ्चोध्यस्तश्चेद्वाव्येत बाध्येत। न च कदाचिदपि बाधोनुभूयते ।

अतो नात्मन्यध्यस्तः, किन्तु बहि: परमार्थत एव स विद्यत इत्याशङ्कय

यथा स्वप्नप्रपञ्चोध्यस्तोपि तदा सत्य इव भाति, प्रबोधसमये बाध्यते,

तथैवायमपि जाग्रत्प्रपञ्चः तत्त्वज्ञानात्पूर्वं सत्यत्वेन भातोप्याचार्येण

परमदयाळुना साक्षात्परमेश्वरावताररूपेणोपदिष्टतत्त्वमस्यादिमहावाक्य-

जन्यप्रत्यग्ब्रह्मैक्यसाक्षात्कारसमये समूलं बाधितस्सन् प्रत्यगभिन्नाद्वि-

तीयब्रह्ममात्रतया परिशिष्यत इत्यभिप्रेत्याह – यस्साक्षादित्यादिना ।

'यः' अभ्ध्यस्तप्रपञ्चाधिष्ठानभूतः प्रत्यगात्मा, 'प्रबोधसमये' गुरूपदिष्ट-

महावाक्यात् ज्ञानोत्पत्तिकाले, 'अद्वयं' सर्वप्रपञ्चस्य समूलस्य बाधि-

तत्वेन वियदादिद्वयरहितं, 'स्वात्मानमेव ' वियदाद्यधिष्ठानभूतब्रह्माभिन्नं

सच्चिदानन्दात्मकं प्रत्यञ्चमेव, 'साक्षात्कुरुते' सच्चिदानन्दात्मकं ब्रह्माह-

मस्मीत्यप्रतिबन्धेनाव्यवधानमनुभवति ; 'यत्र त्वस्य सर्वमात्मैवाभूत्तत्के-

न कं पश्येत् ' [^2] इत्यादिश्रुतेः । 'तस्मै ' उक्तरूपाय, 'श्रीगुरुमूर्तये, '

श्रीगुरुः साक्षात्कृतब्रह्मतत्त्वतया त्रिविधपरिच्छेदशून्यो ज्ञानोपदेष्टा

पुरुषः, तन्मूर्तये तद्रूपेणावस्थिताय, 'श्रीदक्षिणामूर्तये' दक्षिणा दक्षिण-

दिगभिमुखा मूर्तिर्विग्रहो यस्य तस्मै ।
 

 
[^1]
कैवल्योपनिषदि
 
.
[^2]
बृ. उ. ६-५-१५०
 
.