This page has not been fully proofread.

सव्याख्यम्.
 

 
अप्यत्यन्तघनाङ्गायास्सुनीरन्ध्राकृतेरपि ।

विद्यतेन्तर्जगद्वृबृन्दं व्योम्नीव विततोनिलः[^1] ॥ इति ।
 

 
ननु प्रतीचोन्तरे यदि सदा विश्वं तिष्ठति तर्हि रागादिवदन्त-

रेवानुभूयेतेत्याशङ्कयाह – आत्मनीत्यादिना । 'आत्मनि' स्वप्रकाशे

प्रतीचि विषये आश्रये च या माया अविद्या सूर्ये पेचकादीनामन्धकार-

प्रतीतिवन्मामहं न जानामीति भ्रमानुभवसिद्धा तया 'मायया' 'बहिः'
स्वस्माद्वा

स्वस्माद्बा
ह्यदेशे 'उद्भूतमिव' आविर्भूतमिव 'पश्यन्' अवलोकयन्,

'यः' इत्युत्तरत्र सम्बन्धः । अन्तर्विद्यमानस्य जगतो बाह्यत्वेनानुभवे

दृष्टान्तमाह - यथा निद्रयेति । 'यथा निद्रया' स्वाप्नं जगत् साक्षिीण
षिणि
स्वस्मिन्नव्ध्यस्ततया स्थितमपि स्वस्माद्हिस्स्थितमिवानुभवति तद्वदेवेदं

जाग्रत्प्रपञ्चमपि स्वस्मिन् प्रत्यक्चैतन्ये अध्यस्ततया स्थितमेव स्वा-

ध्यस्तदेहादितादात्म्याध्यासवशात् स्वस्माद्बाहिरिव पश्यति । अन्यथा

जडस्य जगतः प्रत्यक्चैतन्येन सह संयोगाद्यन्यतमसम्बन्धासम्भवेन

प्रतीचस्सकाशाज्जगदाद्भानं न स्यात् । तस्मात्तत्राध्यस्तमेव तत् । तथा च

प्रत्यगात्मानं प्रकृत्य श्रुतिर्भवति -
 

 
पुरत्रये क्रीडति यश्च जीवस्ततस्तु जातं सकलं विचित्रम् ।

आधारमानन्दमखण्डबोधं यस्मिन् लयं याति पुरत्रयं च ॥

एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च ।

खं वायुर्ज्योतिरापः ष्टपृथिवी विश्वस्य धारिणी ॥
 

 
[^1]
निर्वाणप्रकरणे ४६ अध्याये,