This page has been fully proofread once and needs a second look.

अप्यत्यन्तघनाङ्गायास्सुनीरन्ध्राकृतेरपि ।
विद्यतेन्तर्जगद्बृन्दं व्योम्नीव विततोनिलः[^1] ॥ इति ।
 
ननु प्रतीचोन्तरे यदि सदा विश्वं तिष्ठति तर्हि रागादिवदन्त-
रेवानुभूयेतेत्याशङ्क्याह-- आत्मनीत्यादिना । 'आत्मनि' स्वप्रकाशे
प्रतीचि विषये आश्रये च या माया अविद्या सूर्ये पेचकादीनामन्धकार-
प्रतीतिवन्मामहं न जानामीति भ्रमानुभवसिद्धा तया 'मायया' 'बहिः'
स्वस्माद्बाह्यदेशे 'उद्भूतमिव' आविर्भूतमिव 'पश्यन्' अवलोकयन्,
'यः' इत्युत्तरत्र सम्बन्धः । अन्तर्विद्यमानस्य जगतो बाह्यत्वेनानुभवे
दृष्टान्तमाह - यथा निद्रयेति । 'यथा निद्रया' स्वाप्नं जगत् साक्षिणि
स्वस्मिन्नध्यस्ततया स्थितमपि स्वस्माद्बहिस्स्थितमिवानुभवति तद्वदेवेदं
जाग्रत्प्रपञ्चमपि स्वस्मिन् प्रत्यक्चैतन्ये अध्यस्ततया स्थितमेव स्वा-
ध्यस्तदेहादितादात्म्याध्यासवशात् स्वस्माद्बहिरिव पश्यति । अन्यथा
जडस्य जगतः प्रत्यक्चैतन्येन सह संयोगाद्यन्यतमसम्बन्धासम्भवेन
प्रतीचस्सकाशाज्जगद्भानं न स्यात् । तस्मात्तत्राध्यस्तमेव तत् । तथा च
प्रत्यगात्मानं प्रकृत्य श्रुतिर्भवति--
 
पुरत्रये क्रीडति यश्च जीवस्ततस्तु जातं सकलं विचित्रम् ।
आधारमानन्दमखण्डबोधं यस्मिन् लयं याति पुरत्रयं च ॥
 
एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥
 
[^1] निर्वाणप्रकरणे ४६ अध्याये,